________________
जयोदय- महाकाव्यम्
[ ३५-३७
काशिभूपतिरहो बहुदेशाभ्यागताः कथममी सुनरेशाः । वर्ण्यभावमनुयान्तु सुतायामित्यभूत् स्थलमसावकितायाः ।। ३५ ।।
२३४
काशिभूपतिरिति । काशिभूपतिः अकम्पनमहाराजो बहुभ्यो देशेभ्योऽभ्यागता अमी सम्मुखे वर्तमानाः सुनरेशाः प्रशंसनीया राजानः सुतायां सुलोचनायामागत्य उपस्थितायां सत्यां पुनर्वर्ण्यभावं वर्णनीयतां कथमिति केन प्रकारेण अनुयान्तु प्राप्नुवन्तु अहो इत्येवं विचारेणाऽसौ नृपोऽकितायाः दुःखित्वस्य स्थलमभूत् ॥ ३५ ॥
तत्तदाशयविदाऽथ सुरेण भाषितं नृपसकुक्षिचरेण । राजराजिचरितोचितवक्त्री वित्त्वमेव सदसीह भवित्री ।। ३६ ।।
तत्तदाशयेति । अथानन्तरं तस्य राज्ञ आशयं वेत्तीति तेन सुरेण नृपस्य अकम्पनस्य समाना कुक्षिर्यस्य स समानकुक्षिः, भूतपूर्वः समानकुक्षिरिति समानकुक्षिचरस्तेन राज्ञः पूर्वसहोदरेण भाषितं यद्धे विद् विद्यावति, इह सदसि राज्ञां राजिस्तती राजराजिस्तस्याश्चरितमुचितं वदतीति राजराजिचरितोचितवक्त्री त्वमेव भवित्रीति । अनुप्रासः ॥ ३६ ॥ भूरिभूशकलवासिनराणां वंशशीलविभवादि वराणाम् ।
वेत्सि देवि पदमईसि तत्त्वं मौनमत्र नहि ते खलु तत्त्वम् ।। ३७ ।।
अन्वय : काशिभूपतिः बहुदेशाभ्यागताः अमी सुनरेशाः सुतायां वर्ण्यभावं कथम् अनुयान्तु अहो ! इति असो अकितायाः स्थलम् अभूत् ।
अर्थ : ऐसी सभा देखकर महाराज अकंपनने मनमें थोड़ा-सा कष्टका अनुभव किया कि अहो ! ये देश-देश के आये एक-से-एक बढ़कर राजा लोग हैं । इनका वर्णन कर सुलोचनाको कोन बता सकेगा ? ।। ३५ ।।
अन्वय : अथ तत्तदाशयविदा नृपसकुक्षिचरेण सुरेण भाषितं हे वित् ! इह सदसि राजराजिचरितोचितवक्त्री त्वम् एव भवित्री ।
अर्थ : राजा के इस अभिप्रायको जाननेवाला राजाका भाई चित्रांगद देव बुद्धिदेवी से बोला कि हे विद्यावती ! इस सभामें जो ये राजा लोग आये हैं, सुलोचनाको इन सबका भिन्न-भिन्न परिचय देनेका भार तुम्हारे ही ऊपर है ॥ ३६ ॥
अन्वय : हे देवि ! भूरिभूशकलवासिनराणां वराणां वंशशीलविभवादि त्वं वेत्सि । तत् पदं त्वम् अर्हसि । अत्र खलु ते मोनं तत्त्वं नहि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org