________________
३३-३४ ]
पञ्चमः सर्गः
२३३
तति । तत्र देवसभायां कश्चनैव कविः शुक्रः, एक एव च गुरुर्ब्रहस्पतिः, एक एव च कलाघर इत्येतस्मिन् टे ध्वनौ क आत्मवान् कलाधरनामधारकश्चन्द्रमा वर्तते । अत्र पुनः सर्वे जना एव कवयः कवित्वकर्तारो गुरव उत्तमाचरणशालिनः कलासु च पुरवः परिपूर्णाः सन्ति । तस्मादियमेव श्रेष्ठतरास्ति स्वर्गसभात इति । श्लेषालङ्कारः ॥ ३२ ॥ मादृशामुत दृशा गुणगीता क्यापि नापि परिषत्परिपीता । ज्ञायते च न भविष्यति दृश्या भूत्रयातिशयिनी बहुशस्या ।। ३३ ।।
मादृशामिति । मादृशां दृशा चक्षुषा एतादृशी गुणानां गीता यस्याः सा गुणपरिपूर्णा परिषत्सभा क्वापि कुत्रचिदपि न परिपीता नेवावलोकिताऽभूत् । पुनर्भविष्यत्यपि काले दृश्या न ज्ञायते, यत इयं भूत्रयातिशयिनी लोकत्रयेऽप्यतिशयवती बहुभिर्गुणः शस्या प्रशंसनीयाऽभूत् । अनुप्रासः ॥ ३३ ॥
सौष्ठवं समभिवीक्ष्य सभाया यत्र रीतिरिति सारसभायाः । वैभवेन किल सज्जनताया मोदसिन्धुरुदभूज्जनतायाः ॥ ३४ ॥
सौष्ठवमिति । यत्र सारसस्य चन्द्रस्य भा दीप्तिर्यस्यां सा तस्याः सभायाः सौष्ठवं सौन्दर्यमभिवीक्ष्य किल सज्जनताया उत्तपुरुषताया वैभवेन गुणेन जनतायाः प्रजावर्गस्य मोदसिन्धुरानन्दसमुद्र उदभूत् समुच्छलत्तरङ्गोऽजायत । अन्त्ययमकालङ्कारः ॥ ३४ ॥
अर्थ : इन्द्रकी उस सभामें तो एकमात्र शक्र ही कवि है। एक बृहस्पति ही गुरु है और आत्मवान् एक चन्द्रमा ही कलाधर है। किन्तु यहाँ तो सभी कवि, सभी गुरु और सभी कलाधर हैं ॥ ३२ ॥ ____अन्वय : मादृशां दृशा खलु गुणगीता परिषद् क्व अपि न अपि परिपीता, न च भविष्यति दृश्या ज्ञायते । इयं भूत्रयातिशयिनी बहुशस्या ( वर्तते )। ___ अर्थ : मेरी दृष्टिसे तो ऐसी गुणशालिनी सभा कभी कहीं भी नहीं देखी गयी और न आगे देखो जानेकी आशा ही है। यह सभा तो तीनों लोकोंमें सबसे बढ़-चढ़कर है ॥ ३३ ॥
अन्वय : यत्र सारसभायाः रीतिः इति सभायाः सौष्ठवं समभिवीक्ष्य किल सज्जनतायाः वैभवेन जनतायाः मोदसिन्धुः उद्भूत् ।
_ अर्थ : उस सभामें विकसित कमलके समान प्रसन्नता थी। उसका सौन्दर्य देखकर सज्जनताके वैभवद्वारा वहाँको जनताका आनन्द-समुद्र उमड़ रहा था ॥ ३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org