________________
२३०
जयोदय- महाकाव्यम्
[ २६-२७
यतो विभाते रवौ सूर्येऽनुवर्तिनि सानुकूलवृत्तिमति सति प्रतियाते समुदिते पुनर्वीपके मतिर्नोदेति । अर्थान्तरन्यासः ॥ २५ ॥
वेशवानुपजगाम जयोऽपि येन सोऽथ शुशुभेऽभिनयोऽपि । लोकलो पिलवणापरिणामः स स्म नीरमीरयति च कामः ।। २६ ।।
वेशवानिति । अथ पुनरत्र वेशवान् ललितवस्त्राभूषणविहित नेपथ्यो जयोऽपि चरितनायकोऽप्युपजगाम येन सोऽभिनयः सभासमारोहोऽपि शुशुभे शोभामाप । च पुनः लोकलोपी लोकोत्तरो लवणायाः कान्त्याः परिणामः प्रसारो यत्र स कामोऽपि नीरमीरयति स्म, किङ्करतामेवानुजगाम । अनुप्रासालङ्कारः ॥ २६ ॥
राजमान इव राजनि चैतैर्बाहुजैः सपदि तत्र समेतैः ।
जल्पितं वसुमतीवलये तत्क्षत्रमत्र न पुरस्सरमेतत् ॥ २७ ॥
राजमान इति । तत्र सभायां सपदि सम्प्रतं राजनि जयकुमारे तस्मिन्नेव चन्द्रमसि राजमाने शोभमाने सति समेतः समन्ततः स्थितेरेतेः अर्ककीर्त्याविभिर्बाहुजैः क्षत्रियैरत्र वसुमतीवलये महोमण्डले तत्क्षत्रं नाम नपुरस्सरं नकारपूर्वकं नक्षत्रमिति एतज्जल्पितमभूत् । अयं भावः - चरितनायकश्चन्द्र इव बभौ परे च सर्वे नक्षत्रनिभा जाताः, यतस्तेः तस्याग्रे क्षत्रं नाम नजल्पितमिति वा । श्लेषोपमालङ्कारः ॥ २७ ॥
ही क्या है ? जैसे प्रातःकाल के समय सूर्यके उदित होनेपर दीपकको कोन याद करता है ? ।। २५ ॥
अन्वय : अथ वेशवान् जयः अपि उपजगाम, येन सः अभिनयः अपि शुशुभे । यतः लोकलोपिलवणापरिणामः सः कामः च नीरम् ईरयति स्म ।
अर्थ : अब यहीं सज-धजकर महाराज जयकुमार भी आये जो अनुपम रूपसोन्दर्य रखते थे । उनके आनेसे वह सभा निखर उठी । कारण उनके आगे कामदेव भी पानी भरता था ।। २६ ॥
अन्वय : तत्र सपदि राजनि राजमाने समेतः एतैः बाहुजैः वसुमतिवलये एतत् तत्क्षत्रं नपुरस्सरं जल्पितम् ।
अर्थ : वहाँ इस राजरूपी जय चन्द्रके पहुंचकर विराजने पर अर्ककीर्ति आदि जितने क्षत्रिय लोग थे, उन्होंने इस सारे भूमण्डल में अपने नामके पहले 'न' लगा लिया । अर्थात् इसके आगे हम क्षत्रिय नहीं, बल्कि चन्द्रमाके सामने नक्षत्रोंके समान हैं ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org