________________
२४-२५ ]
पञ्चमः सर्गः
२२९
तांस्तिरयते स्म स्विदित्युत्प्रेक्ष्यते । यतः स विबुधो बुद्धिमानस्ति, ततश्चन्द्रमसं पुनः पुनर्निर्माय अभ्यासं कृतवान् एषामानननिर्माणार्थं किलेति भावः । उत्प्रेक्षालङ्कारः ॥ २३ ॥ नो वृषाङ्कविभवेन पुराऽथ पञ्चतामुपगतो रतिनाथः । सन्ति साम्प्रतमिमाः प्रतिमास्तु सृष्टिदृष्टिविषयाः कतमास्तु ।। २४ ।।
नो वृषाङ्केति । अथ वृषाङ्कस्य रुद्रस्य उत नाभेयस्य प्रथमतीर्थङ्करस्य विभवेन प्रभावेण कृत्वा पुरा पूर्वकाले रतिनाथः कामदेवः पञ्चतां प्रणाशमुपगत इति नो नैव, तु इति निश्चये । अन्यथा पुनः साम्प्रतमिमाः प्रतिमाः सृष्टेर्दृष्टिविषया विश्वस्य दृक्पथगताः कतमाः सन्ति ? अयं भावः -- वृषाङ्कस्य विभवेन भस्मीकरणरूपसामर्थ्यन उपद्रुतस्य कामस्य प्राणनाशो नाभूत्, अपि तु बहुलतेव जाता खलु, एतेषां नवयुवकानां कामतुल्यरूपत्वादित्यर्थः । उत्प्रेक्षालङ्कारः ॥ २४ ॥
ईदृशे युवगणेऽथ विदग्धे का क्षती रतिपतावपि दग्धे । नानुवर्तिनि खौ प्रतियाते दीपके मतिरुदेति विभाते ॥ २५ ॥
ईश इति । अथ विकल्पे, ईदृशे सौन्दर्यादिगुणविशिष्टे युवगणे तरुणसमूहे विदग्धे बुद्धिमति विचक्षणे विद्यमाने सति रतिपतौ कामे दग्धे भस्मीभूते सत्यपि का खलु क्षतिः,
ग्रहण करते हैं, जो छिपाया वह मानो इन्हीं राजाओंके मुखोंको बनानेकी इच्छासे ही छिपाया हो ॥ २३॥
अन्वय : अथ पुरा रतिनाथः वृषाङ्कविभवेन पञ्चतां नो उपगतः । सांप्रतम् इमाः प्रतिमाः तु सृष्टिदृष्टिविषयाः कतमाः तु सन्ति ।
अर्थ : पुराने जमाने में भगवान् महादेव या नाभेय प्रथम तीर्थंकरके प्रभाव से कामदेव पंचता (मृत्यु) को प्राप्त हो गया, ऐसी बात नहीं । वह पंचत्वको नहीं, अनेकत्वको प्राप्त हो गया; क्योंकि ये जो संसारमें राजा लोग दृष्टिगोचर हो रहे हैं, वे सब उसीके रूप नहीं तो क्या हैं ? ।। २४ ।।
अन्वय : अथ ईदृशे विदग्धे युवगणे सति रतिपती दग्धे अपि का क्षतिः । विभाते रवी अनुवर्तिनि प्रतियाते दीपके मतिः न उदेति ।
अर्थ : फिर भी यदि कहा जाय कि कामदेव तो कभीका जल गया, तो जहाँ इस प्रकारके सुन्दर राजा लोग विद्यमान हैं, वहाँ कामदेवकी आवश्यकता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org