________________
२२०
१९-२१ ]
पञ्चमः सर्गः चित्रभित्तिषु समर्पितदृष्टौ तत्र शश्वदपि मानवसृष्टौ । निर्निमेषनयनेऽपि च देवव्यूह एव न विवेचनमेव ॥ १९ ॥ चित्रति । तत्र सभायां चित्रभित्तिषु समर्पिता निक्षिप्ता दृष्टियंया सा तस्यां मानवानां सृष्टौ शश्वदपि सत्यां निनिमेषाणि नयनानि यस्य तस्मिन् देवानां व्यूहे समूहेऽपि व विवेचनं पृथक्करणमेव न बभूव, यतो देहश्रिया तु देवसदृशाः प्रथममेव ते जनाः, अधुना तु मनोहारिचित्राङ्कितभित्तिकासु सततं वत्तदृष्टितया निनिमेषभावेन कृत्वा पुनरविवेचनं युक्तमेव बभूव । अत्रातिशयोक्तिरलङ्कारः ॥ १९॥
सेवकेऽपि समभूद्गुणवर्गः पाटवाभरणविभ्रमसर्गः । तं स्मयेन जनता मनुतेऽरं नायक कमपि सुन्दरवेरम् ॥ २० ॥ सेवक इति। तत्र सेवके परिचारकेऽपि जने पाटवं चातुर्यमाभरणानि विभ्रमोऽङ्गचेष्टितं तेषां सर्गो यत्र स गुणानां वर्गः समुदायः समभूत् सुन्दरतमो येन कृत्वा जनता सर्वसाधारणा प्रजा सुन्दरं वेरं शरीरं यस्य तं कमपि नायकं स्वयंवरमहोत्सवे समागतं प्रषानपुरुषमेव अरं शीघ्र स्पष्टरूपतया मनुते स्म ॥२०॥
यत्कुलीनचरणेषु च तेषु छायया परिंगतेषु मतेषु । उद्गतः सुमनसां समुदायः काल एष सुरभिः समियाय ॥ २१ ॥
अन्वय : तत्र चित्रभित्तिषु समर्पितदृष्टी मानवसृष्टौ शश्वत् अपि निनिमेषनयने च देवव्यूहे विवेचनम् एव न (बभूव )।
अर्थ : वहाँ नगरीकी चित्रयुक्त भित्तियोंसे एकटक दृष्टि लगानेवाले मानवसमूह और निनिमेष नयनवाले देवोंके समूहमें परस्पर विवेक प्राप्त करना बड़ा कठिन हो गया था ॥ १९ ॥
_ अन्वय : सेवके अपि पाटवाभरणविभ्रमसर्ग: गुणवर्गः समभूत्, येन जनता तम् अपि सुन्दरवेरं कम् अपि नायकम् अरं मनुते स्म ।
अर्थ : उन राजाओंके जो सेवक लोग साथमें आये थे, उनमें भी चतुरता, वस्त्राभूषण एवं विभ्रमयुक्तता आदि समुचित गुण थे, जिनसे उन्हें भी देखनेवाले लोग सुन्दर शरीर होनेसे सेवक न मानकर नायकरूपमें ही समझने लगे ॥ २०॥
अन्वय : यत् छायया परिगतेषु मतेषु तेषु कुलीनचरणेषु सुमनसां समुदायः उद्गतः सुरभिः कालः एषः समियाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org