________________
२२६
जयोदय- महाकाव्यम्
[ १७-१८
अस्याः सदृशीति कृत्वेव तत्र भोगिपदस्य योगो येषां भवति ते भोगिपदयोगिनो वैभवशालिनो नागकुमारास्तेषां कलापः समूहः पुनस्तत्राशु समापेति युक्तमेव ॥ १६ ॥ सत्तरङ्गतरलैर्निज केन्द्रादागता इयवरैस्तु नरेन्द्राः ।
तैव हि हयाननवर्गः प्राप्तवानभिनिबोधनिसर्गः ॥ १७ ॥
सत्तरङ्गेति । सन्तश्च ते तरङ्गास्त इव तरलाश्चञ्च लास्तैः हयवरैरश्वश्रेष्ठेः नरेन्द्रा राजानो निजकेन्द्रात् स्थानादिह तु पुनरागताः, तावतैव हि हयानामाननानीव आननानि येषां ते तेषां वर्गस्तथा व्यन्तरदेवसमूहश्च हयानननामवाच्यत्वात् तेषां प्राप्तवानुपस्थितो जातः । इत्येवमभिनिबोधस्य अनुमानस्य निसर्गः प्रसूतिः ॥ १७ ॥
मानिनोऽपि मनुजास्तनुजायामागता रसवशेन सभायाम् ।
जायते सपदि तत्र किमूहः स्वागतः खलु विमानिसमूहः ॥ १८ ॥
मानिन इति । मानिनो ये मनुजा अभिमानवन्तस्तेऽपि पुनस्तनुजायां तस्यां सुलोचनायां काशिराजपुत्र्यां रसवशेन उपलम्भनरूपप्रेमभावेन कृत्वा तत्र सभायां यदि समगतास्तदा विमानिनां मानहीनानां स्वाभिमानरहितानाम् । यद्वा विमानेन गमनशीलानां विमानिनां स्वगिणामपि समूहः स्वागत इत्यत्र ऊहो वितर्कः किम् ? नात्र कोsपि वितर्क इति भावः । वक्रोक्तिरलङ्कारः ॥ १८ ॥
भी सुलोचना सर्वोत्तम रत्नस्वरूपा थी । अतः वहां भोगियों यानी वैभवशाली नागकुमारों के समूहका शीघ्र आना उचित ही है ।। १६ ।।
अन्वय : नरेन्द्राः तु निजकेन्द्रात् सत्तरङ्गतरलै: हयवरैः आगताः । तावता एव हि हयाननवर्गः प्राप्तवान् इति अभिनिबोधनिसर्गः ।
अर्थ : वहाँ जितने भी पृथ्वीतलके राजा लोग थे, सब अपने-अपने स्थानसे तरंगके समान चंचल घोड़ोंपर चढ़कर आये थे । अतः वहीं हयानन (घोड़ों के मुँह और व्यंतरदेव ) आ गये, यह सहज ही अनुमान होता है ॥ १७ ॥
अन्वय : सभायां तनुजायां रसवशेन मानिनः अपि मनुजाः सपदि समागताः । तत्र खलु विमानिसमूहः स्वागतः ( इति ) किम् ऊहः जायते ।
अर्थ : इसी प्रकार उस स्वयंवर मंडप में सुलोचनाकी प्राप्तिकी उत्कंठासे, जब कि स्वाभिमानी लोग भी आ पहुँचे थे तो वहाँ विमानी लोगोंका ( वैमानिक देवोंका तथा मानहीन लोगोंका ) पहुँचना कोई बड़ी बात नहीं थी ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org