________________
जयोदय- महाकाव्यम्
[ १२-१४
आत्मसादुपनयन्निह भूपान् दर्पकोऽपि कुशलान् समरूपान् । स्वस्य नाम बहुरूपमिदानीमाह सार्थकमनुत्तरमानी ॥ १२ ॥
२२४
आत्मसादिति । इह स्वयंवरमण्डपे दर्पकः कामः यः खलु नास्त्युत्तरो मानः स्मयो यस्मात् सोऽनुत्तरमानी कुशलान् प्रसन्नचित्तान्, किञ्च समानं रूपं येषां ते समरूपास्तान् आत्मसादुपनयन् स्वीकुर्वन् स्वस्य बहुरूपं नामेवानीं सार्थक मर्थानुरूपमाह ॥ १२ ॥
रूपयौवन गुणादिकमन्यैः स्वजनोऽथ तुलयन्निह धन्यैः । रक्तिमेतरमुखं सरटोक्तं नैकरूपमयते स्म तथोक्तम् ।। १३ ॥
रूपेति । इह स्वयंवरमण्डपे सम्प्राप्तो जनः स्वं निजं रूपञ्च यौवनञ्च गुणश्च शीलञ्चादिर्येषां तद्रूपयौवनगुणादिकमन्येर्धन्यः पुण्यात्मभिः सह तुलयन् स्वस्य परस्य च सौन्दर्यादिकं किमहं रूपवान् अथवाऽयमित्येवं रूपेणानुभवन् रक्तिमाऽनुरागः प्रसन्नता च, इतरदप्रसन्नता च मुखं प्रमुखं यत्र तन्नेकरूपं बहुप्रकारं सरटे गिरगटे यदुक्तं तथोक्तमयते
1
स्म प्राप ॥ १३ ॥
सम्ममौ संपदि काशिसुभूमावेव देव जगतां नृपभूमा । ऋद्धिरस्तु वरदा नरधातुः सापि तान् समयते स्म शुभा तु ॥ १४ ॥
अन्वय : इह अनुत्तरमानी दर्पकः अपि कुशलान् समरूपान् भूपान् आत्मसात् उपनयन् इदानीं स्वस्य बहुरूपं नाम सार्थकम् आह ।
अर्थ : अद्वितीय मानका धारक कामदेव भी अत्यन्त कुशल और अपने समान रूपवाले उन राजकुमारोंको अपने प्रभाव में कर उस समय अपना 'बहुरूप' नाम सार्थक कर रहा था ।। १२ ॥
अन्वय : अथ इह जनः अन्यैः जनैः सह स्वं रूपयौवनगुणादिकं तुलयन् रक्तिमेतरमुखं तथोक्तं नैकरूपं सरटोक्तम् अयते स्म ।
अर्थ : यहाँ प्रत्येक राजकुमार अपने रूप, यौवन और गुणादिकी, वहाँ स्थित दूसरे राजकुमारोंके रूपादिसे तुलना करता हुआ गिरगिटकी तरह कभी प्रसन्न तो कभी अप्रसन्न होता हुआ अनेक रूप धारणकर रहा था ।। १३ ॥
अन्वय : हे देव ! सपदि जगतां नृपभूमा काशिसुभूमौ एव सम्ममी । अत्र नरधातुः शुभा वरदा सा ऋद्धिः अस्तु, (या ) तु तान् समयते स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org