________________
१०-११ ]
पञ्चमः सर्गः
२२३
सर्वप्रथमावासिलक्षणेन कृत्वा सुवृशः सुलोचनाया आसि प्राप्तिमिवाऽनुमेने । उत्प्रेक्षालङ्कारः ॥ ९ ॥
तैरकम्पनभुवा तुलितानि वीक्ष्य चित्रखचितानि मतानि । भूमिपैदिन मनायि निशाऽपि तत्स्फुरच्छ्यनभाव दृशाऽपि ॥ १० ॥
तैरिति । तैर्भूमिपैः स्वयंवराभिलाषिभिः अकम्पनभुवा सुलोचनया तुलितानि सदृशानि चित्रेषु खचितानि लिखितानि मतानि वीक्ष्य किल दिनमनायि यावद्दिनं तत्र नगर्यामुत्कीर्णानि चित्राणि विलोकयद्भिरपि पुनर्नशाऽपि तस्याः सुलोचनायाः शयनभावः स्वप्नः शयनावस्थायां सुलोचनावलोकनमिति यावत् तस्य दृशा दृष्टया निशाप्यनायि ॥ १० ॥
दूतहूतिमुपगम्य समस्तैः सोऽपरेद्युरिह सत्सुषमैस्तैः । सारिताभरणभूषणसारैर्मण्डपोऽप्यलमकारि
दूतहूतिमिति । अपरेरिह पुनदूं तस्य हूतिमाह्वानमुपगम्य आभरणानि च भूषणानि चाभरणभूषणानि तेषां साराः, सारिता आभरणभूषणसारा येस्तैः स्वीकृतालङ्कारशोभः सत्सुषमैः सुश्रीभिः कुमारैयुवकैः समस्तैरपि स मण्डपः स्वयंवरार्थमारचितः सर्वतोभद्रनामाऽलमकारि । सर्वे सुसज्जाः सन्तः स्वयंवरस्थानमलचक्रुरित्यर्थः ॥ ११ ॥
कुमारैः ॥ ११ ॥
पदार्पण कर अग्रगामिता प्राप्त करता था, वह अपने इस सर्वप्रथम पहुँचने के उद्यमको मानो सुलोचनाकी प्राप्ति ही मानता हो ॥ ९ ॥
अन्वयः तैः भूमिपैः अकम्पनभुवा तुलितानि चित्रखचितानि मतानि वीक्ष्य दिनम् अनायि । तत्स्फुरच्छ्यनभावदृशा ( तैः ) निशा अपि अनायि ।
अर्थ : वहाँ इकट्ठे होनेवाले राजाओंने दिन तो सुलोचनासे समता रखनेवाले चित्रोंको देख-देखकर व्यतीत किया और रात्रि भी स्वप्न में सुलोचनाको देखकर बितायी ॥ १० ॥
अन्वय : अपरेद्युः इह दूतहूतिम् उपगम्य तैः सारिताभरणभूषणसारैः सत्सुषमैः समस्तैः कुमारैः अपि सः मण्डपः अलम् अकारि ।
अर्थ : दूसरे दिन वहाँ दूतका आह्वान सुनकर अच्छे-अच्छे वस्त्राभूषणोंसे सजे उन सभी राजकुमारोंने उत्तम शोभायुक्त सर्वतोभद्र नामक स्वयंवर मंडपको सुशोभित किया ।। ११ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org