________________
६-७]
पञ्चमः सर्गः
२२१ ___ कन्यकेति । कन्यका नाम सुलोचना यद्यस्मात् कारणात् अपकर्षणविद्या अपकर्षणकी मायाऽभूत्, यया पुनरीश्वराः समर्था अपि जना विमुक्ता परित्यक्ता निषद्याऽऽसनभूर्यस्ते तादृशा भवन्तः सकला अप्याशु काशीनगरों समवापुः प्राप्तवन्तः। या खलु पूः पुरी अतिशयेन विमला निर्दोषाऽसीत् ॥ ५॥ सामदामविनयादरवादैर्धामनाम च वितीर्य तदादैः । आगतानुपचचार विशेषमेष सम्प्रति स काशिनरेशः ॥ ६ ॥
सामदामेति । स एष काशिनरेशोऽकम्पनः सम्प्रति साम समयोचितं सम्भाषादिक्षेमपृच्छादिरूपं, दाम माल्यक्षेपणं, विनयो नमस्कारादिः आदरवादो नम्रवचनं तैरेतैः कृत्वा षामनाम वितीर्य स्थानं दत्त्वा तदादैनसम्मानः आगतान् जनानुपचचार विशेष यथा स्यात्तथा । अनुप्रासः ॥ ६ ॥ तामपेक्ष्य वसुधावसुरूपां प्रस्थितास्तु सकला दिगनूपाः । तत्तदङ्गिसमुपाङ्गिनबाधा निवृतिं तु हरितामिति वाऽधात् ।। ७ ।।
तामपेक्ष्येति । तां वसुधायाः पृथिव्यां वसुरूपां रत्नतुल्यां सुलोचनामपेक्ष्य सकला दिशामनूपाः स्वामिनो वासिनो वा उपसमीपमनुवर्तन्त इत्यनूपाः, ते पुनः प्रस्थिता गन्तुमुद्यता
अर्थ : सुन्दरी वधू सुलोचना निश्चय ही किसी आकर्षण करनेवाली विद्या, मायाके समान थी। कारण, बड़े-बड़े समर्थ पुरुष भी अपने-अपने स्थान छोड़कर स्वयं ही उस काशीपुरीमें आ पहुँचे, जो निर्मलतामें सभीसे बढ़ी-चढ़ी हुई थी॥ ५ ॥
अन्वय : सम्प्रति एषः सः काशिनरेशः सामदामविनयादरवादैः धामनाम च वितीर्य तदादैः आगतान् विशेषम् उपचचार ।
अर्थ: उस समय उस काशीनरेशने साम ( समयोचित भाषण), दाम (माल्यदान ), विनय ( नमस्कार ) और आदरयुक्त नम्र-वचनों द्वारा, सुन्दर निवासस्थान देकर आगन्तुक लोगोंका अत्यन्त भव्य स्वागत किया ॥६॥
अन्वय : वसुधावसुरूपां ताम् अपेक्ष्य सकलाः दिगनूपाः प्रस्थिताः इति वा हरितां तत्तदङ्गिसमुपाङ्गिनबाधा तु निवृत्तिम् अधात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org