________________
२२० जयोदय-महाकाव्यम्
[३-५ वात्ययाऽत्ययिनि तूलकलापे तादृशी स्मरशरार्पितशापे । वेगिता तु समभूत् कृतचारे सा भुवामधिभुवा परिवारे ॥ ३ ॥ वात्ययेति । भुवामधिभुवां पृथिव्याः पतीनां परिवारे सजातिसमूहे कृतः प्रारब्धचारोपगमनं येन तस्मिन् पुनस्तादृशी वेगिता वेगयुक्तता समभूद् यादृशी वातानां सन्ततित्या तयाऽत्ययिनि अत्ययभूति वातप्रेरिते तूलस्य कार्यसत्वचः कलापे समूहे भवति । ते राजकुमारा अतिशीघ्रतया तत्राऽजग्मुरिति भावः । वृष्टान्तालङ्कारः ॥ ३॥ प्रेरितः सपदि चित्तभुवा यदञ्चति स्म नहि कोऽत्र युवा यः । कौतुकेन सह सम्पदलोपी न स्थितः सधरणेश्च कणोऽपि ॥ ४ ॥
प्रेरित इति । यो युवा यौवनप्राप्तो जनः सोऽत्र काश्यां को वा नाञ्चति स्म, यद्यस्मात् कारणात् सपदि अधुना चित्तभुवा कामदेवेन न प्रेरितोऽभूत् । हि निश्चयेन । यश्च कौतुकेन सह विनोदेन साधं सम्पदं न लोपयतीति सम्पदलोपी, प्रत्युत सह सम्पदलोपी तेषां साधं गमने ये सम्पदश्चरणसम्पातास्तान्न लोपयतीति सहसम्पदलोपी भूयश्चरणसम्पातेन कृत्वोत्थितः सधरणेः पृथिव्याः कणोऽपि न स्थितः, किन्तु सार्धमेव प्रस्थितवानिति वक्रोक्तिः, श्लेषालङ्कारश्च ॥४॥
कन्यका यदपकर्षणविद्या ईश्वरा अपि विमुक्त निषद्याः । काशिमाशु सकलाः समवापू राजेतऽतिविमला खलु या पूः ॥ ५ ॥
अन्वय : स्मरशराप्तिशापे भुवाम् अधिभुवां परिवारे कृतचारे तु सा तादृशी वेगिता समभूत् यादृशी वात्यया अत्ययिनि तूलकलापे स्यात् । ____ अर्थ : कामदेवके बाणोंसे आविद्ध पृथ्वीके राजाओंके उस यात्री-परिवारमें ऐसी शीघ्रता हुई, जैसी वायुद्वारा उड़ायी रूईके फोहेमें हुआ करती है ॥ ३॥
अन्वय : सपदि चित्तभुवा प्रेरितः कः अत्र युवा यः कौतुकेन न अञ्चति स्म । च सधरणेः कणः अपि तेन सह सम्पदलोपी न स्थितः ।
अर्थ : उस समय कामदेव द्वारा प्रेरित ऐसा कौन युवक था, जो कौतुकके साथ वहां न पहुँचा हो। यही नहीं, पृथ्वीका कण-कणतक उन लोगोंके पैरोंके सहारे काशी पहुँच गया, अपनी जगह नहीं रह पाया ॥४॥ _अन्वय : कन्यका अपकर्षणविद्या, यत् ईश्वरा अपि विमुक्तनिषद्याः सकलाः काशिम् आशु समवापुः याः पू: खलु अतिविमला राजते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org