________________
पञ्चमः सर्गः श्रीस्वयंवरमवेत्य तदाराद् देहदीप्तिकृतकामनिकाराः । शस्त्रशास्त्रविदि लम्भितपाराः प्रापुरत्र कुलजाः सुकुमाराः ॥१॥ श्रीस्वयंवरेति । श्रीस्वयंवरं सुलोचनाया भवेत्य ज्ञात्वा ये देहस्य दीप्त्या कान्त्या कृत्वा कृतः कामस्य रतिपतेनिकारः पराभवो येस्ते स्वकीयसौन्दर्येण अनङ्गमपि क्षिप्तवन्तः । तथा शस्त्रस्य शास्त्रस्य च विवि विद्यायां लम्भितः समासादितः पारः परभागो यैस्ते शूराश्च शास्त्रज्ञाश्च ते, कुले राजवंशे जाताः कुलजाः शोभनाः कुमारा नवयुवका अत्र काश्यामापुः॥१॥
दिक्षु शून्यतमतां वितरीतुं सत्तमैर्नृपसुतां तु वरीतुम् ।
दर्शकैरपि परैरपहर्तुं तानितं तदितरैः परिकर्तुम् ॥ २ ॥ दिक्ष्विति । दिक्षु दिशासु दशस्वपि शून्यतमतामतिशयनिर्जनतां वितरीतुमिव सत्तमैः सज्जनोत्तमैस्तां वरीतुमरीकतुं तेभ्य इतरेरसद्भिः वरणायोग्यैरपि जनेः कतिपयैः दर्शकैष्टुमिच्छद्भिः कतिपयस्तां सुलोचनां बलादपहर्तुमभिलषद्भिः कतिपयैश्च तान् परिकतुं परिचरितुमेव तत्र इतं काश्यामागत्य स्थितमित्यर्थः । अत्र दीपकालङ्कारः ॥२॥
अन्वय : श्रीस्वयंवरम् अवेत्य तदा अत्र देहदीप्तिकृतकामनिकाराः शस्त्रशास्त्रविदिलम्भितपाराः कुलजाः सुकुमाराः आरात् प्रापुः ।
अर्थ : स्वयंवर हो रहा है, यह जानकर उस समय वहाँ अपनी देहकान्तिसे कामको भी लज्जित करनेवाले कुलीन राजकुमारोंका समूह शीघ्र आ पहुँचा, जो सभी शस्त्र और शास्त्रविद्याओं में निपुण थे ॥१॥ ___ अन्वय : दिक्षु शून्यतमतां वितरीतुम् इव सत्तमैः तु नृपसुतां वरीतुं परः दर्शक: अपि परैः ताम् अपहर्तुं तदितरः तानि परिकर्तुम् इतम् ।
अर्थ : मानो दिशाओंको शून्य करनेके लिए ही सज्जन पुरुषोंने तो सुलोचनाको वरने की इच्छासे, कुछने उस उत्सवको देखनेकी इच्छासे, कुछने कन्याके अपहरणकी इच्छासे तो कुछने उन लोगोंको परिचर्याकी इच्छासे वहाँ काशीमें आगमन किया । प्रायः सभी वहाँ आ पहुँचे, यह भाव है ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org