________________
२१० जयोदय-महाकाव्यम्
[५०-५३ इत्यनेन वचसा हृदि मोदमप्युपेत्य गदितं च वचोऽदः । कौतुकेन भरतेशसुतस्यैवं परस्परमनेकसदस्यैः ॥ ५० ॥ इत्यनेनेति । इत्यनेन दुर्मतिगदितेन वचसा हृदि निजनिजान्तरङ्गे मोदं हर्षमुपेत्य लब्ध्वा भरतेशसुतस्य अर्ककीर्तेः अनेकसदस्यैः कतिचित्सभासदैः कौतुकेनैव अदो निम्नलिखितं वचः परस्परं गदितम् । च पादपूतौ ॥ ५० ॥
केनचिद् गदितमस्मदधीशः स्यादहो नववधूसमयी सः । मोदकान्यपि तदा महदस्मद्भाग्यमस्ति कृतकष्मलभस्म ॥ ५१ ॥ केनचिदिति । तत्र केनचिद् गदितम्-अहो किलास्मदधीशः स्वामी स नववधूसमयी वरः स्यात् । अपि च मोदकानि लड्डुकानि च, तदाऽस्मद्भाग्यं कृतं कष्मलस्य पापस्य भस्म येन तन्महत् प्रशंसनीयमस्तीति ॥५१॥
इत्थमुक्तवति तत्र परस्मिन्नाह कोऽपि मदनोदयरश्मिः । केवलं न भविता मृदुभुक्तिः सम्भविष्यति च गीतनियुक्तिः ॥ ५२ ॥ येन कर्णपथतो हृदुदारमेत्य पूरयति सोऽमृतसारः ।
भूरिशः सरसहासविलास-संयुतोऽभवदसाविव रासः ॥ ५३॥ जगत्के ईश तो भगवान् ऋषभदेव हो हैं । बाकी होगा वही, जो आप लोगोंको इष्ट है ।। ४९ ।।
अन्वयः इति अनेन वचसा अपि हृदि मोदम् उपेत्य च भरतेशसुतस्य अनेकसदस्यः कौतुकेन एवम् अदः वचः गदितम् ।
अर्थ : इस प्रकारके वचनसे सब लोग अपने-अपने मनमें प्रसन्न होकर उस अर्ककीर्तिके अनेक सभासदोंने आपसमें निम्नलिखित कानाफूसी की ॥ ५० ॥
अन्वय : केनचित् गदितम् अहो ! अस्मदधीशः सः नववधूसमयी स्यात् तदा मोदकानि अपि अस्मभ्यम् इति अस्मद्भाग्यं कृतकष्मलभस्म महत् अस्ति ।
अर्थ : उनमें से कोई बोला : 'अहो हमारे प्रभु नववधूके स्वामी बनेंगे तो हम लोगोंको खानेके लिए लडडू मिलेंगे। यह हमारा वह प्रशंसनीय सौभाग्य है, जिसने सारे पापोंको भस्म कर डाला है' ।। ५१ ।।
अन्वय : इत्थं परस्मिन् उक्तवति तत्र कः अपि मदनोदयरश्मिः आह केवलं मृदुभुक्तिः न भविता, च गीतनियुक्तिः संभविष्यति । येन कर्णपथतः एत्य स: अमृतसारः उदारं हृत् पूरयति । इति भूरिशः सरसहाससंयुतः असो रासः इव अभवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org