________________
२०९
४७-४९ ]
चतुर्थः सर्गः फुल्लदानन इतोऽभिजगाम यस्य दुर्मतिरितीह च नाम । सानुकूल इव भाग्यवितस्तिस्तद्भविष्यति यदिच्छितमस्ति ॥ ४७ ॥
फुल्लेति । दुर्मतिनामा पुरुषो मम भाग्यवितस्तिः भाग्यविस्तारः सानुकूल इव प्रतीयते, यन्मम इच्छितमभिलषितं तदेव भविष्यतीति मत्वा फुल्लदाननो हर्षविकसितमुखः सन्नितोऽभिजगाम ययौ ॥ ४७॥ पृष्ठतः स्मरति कश्चकि आयः कीदृगस्ति मनुजोऽयमनायः । कस्य को वशकुदस्ति विचार्य सौहृदं तु सुहृदामथ कार्यम् ॥ ४८ ।।
पृष्ठत इति । कञ्जुकि आर्यः पृष्टतः पश्चादयं मनुजः कीदृगनार्योऽधमोऽस्तीति स्मरति । कः कस्य वशकृवस्ति, इति विचार्य अथ सुहृदां मित्राणां सौहृदं तु कार्यमेव ॥४८॥
प्रत्युपेत्य स जगौ रविमेवं फुल्लदास्यकुसुमः सकृदेव । तद्भविष्यति यदेव मुदेव ईशिता तु जगतां पुरुदेवः ॥ ४९ ॥ प्रत्युपेत्येति । फुल्लदास्यकुसुमो विकसितमुखपुष्पः स कञ्च किः सकृदेव रविमर्ककोति प्रत्युपेत्य एवं जगौ उवाच-यदेव वो युष्माकं मुदे हर्षाय तदेव भविष्यति, जगतामीशिता तु पुरुदेव एवास्ति ॥४९॥
अन्वय : यस्य दुर्मतिः इति इह च नाम, सः भाग्यवितस्तिः सानुकूलः इव यत् इच्छितम् अस्ति तद् भविष्यति एवं फुल्लदाननः इतः अभिजगाम ।।
अर्थ : इसपर वह दुर्मति यह सोचने लगा कि भाग्य अनुकूल है, ऐसा लगता है। वही कार्य होता दीखता है, जिसे हम चाहते हैं। इस तरह प्रसन्नमुख होकर वह वहांसे चला गया ॥४७॥
अन्वय : कञ्चुकिः आर्यः पृष्ठतः स्मरति यत् अयं मनुजः कीदृग् अनार्यः अस्ति । कः कस्य वशकृद् अस्ति इति विचार्य अथ सुहृदां सौहृदं तु कार्यम् ( एव )।
अर्थ : पीछेसे उस महेन्द्र कंचुकीने विचार किया कि यह कैसा अनार्य मनुष्य है। सोचनेकी बात है कि क्या कोई किसीके वशमें है ? किन्तु आपसमें मित्रोंके साथ सभ्यतासे व्यवहार करना ही मनुष्यका काम है ।। ४८ ॥
अन्वय : फुल्लदास्यकुसुमः सः सकृद् एव रवि प्रत्युपेत्य एवं जगौ यत् एव वः मुदे तत् एव भविष्यति । जगतां ईशिता तु पुरुदेवः ।।
अर्थ : उधर वह दुर्मति अर्ककीर्तिके पास जाकर प्रसन्नतापूर्वक बोला कि २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org