________________
२०८ जयोदय-महाकाव्यम्
[४५-४६ इत्यमुष्येति । इत्युपयुक्तममुष्य दुर्मतेः विनियोगं प्रश्नमुपेतः कञ्चुको समनुकूलितं भवति चेतोऽन्तःकरणं येन तत्तादृग यथा स्यात्तथा प्राह उक्तवान्-चक्रिसुत एव विशेषोऽत्र, तत्समो नरवेशो मर्त्यशरीरः को भवतु, न कोऽपीत्यर्थः ॥ ४४ ॥
इत्यवेत्य रविना निजगाद सत्तमोऽस्ति भवतामभिवादः ।
सन्तु दीर्घजनुषोऽत्र भवन्तः पूरयन्तु कुशलं भगवन्तः ॥ ४५ ॥ इत्यवेत्येति । रवेः अर्ककीर्तेर्ना पुरुष इत्यवेत्य इति ज्ञात्वा निजगाव उवाचभवतामभिवादो वार्तालापः सत्तमः श्रेष्ठोऽस्ति । अत्र भवन्तः पूज्या दीर्घजनुषो दीर्घजीविनः सन्तु । भगवन्त ईश्वराः कुशलं पूरयन्तु ॥ ४५ ॥
एवमत्र पुनरादिसुतोऽपि तोषमेष्यति दुराग्रहलोपी। दापयामि भवते परितोषं सजनाक्षयमितः कुरु कोषम् ॥ ४६ ॥ एवमत्रेति । एवं चेदत्र पुनरादिदेवस्य सुतो भरतसम्राडपि यो दुराग्रहलोपी दुष्टताया अपहारकः स तोषमेष्यति । हे सज्जन, तथा कृते सति भवते परितोषं सन्तोषदायकं धनं दापयामि, इतस्तेन कोषमक्षयं कुरु ॥ ४६॥
अर्थ : इस प्रकारके प्रश्नपर वह कंचुको दुर्मतिके मनको अनुकूल करते हुए बोला : 'मुझे तो इन सबमें चक्रवतिके पुत्र अर्ककीर्ति ही योग्य दीखते हैं, उनके समान यहाँ दूसरा कोन मानव है ? ॥ ४४ ॥ ___अन्वय : रविना इति अवेत्य निजगाद । भवताम् अभिवादः सत्तमः अस्ति । अत्रभवन्तः दीर्घजनुषः सन्तु । भगवन्तः कुशलं पूरयन्तु ।
अर्थ : यह बात सुनकर अर्ककोतिका व्यक्ति दुर्मति बोला कि आपकी बातचीत बड़ी सुन्दर है। आप चिरंजीव रहें, भगवान् आपकी कुशल करें॥ ४५ ॥
अन्वय : हे सज्जन एवम् ( अस्ति ), तदा दुराग्रहलोपी आदिसुतः अपि तोषम् एष्यति । भवते परितोषं दापयामि । इतः कोषम् अक्षयं कुरु ।
अर्थ : हे सज्जन, यदि ऐसी बात है तो दुष्टताके अपहारक आदिदेवके पुत्र चक्रवर्ती भरत भी आपपर बहुत प्रसन्न होंगे। मैं आपको बहुत पुरस्कार भी दिलाऊंगा, जिससे आप अपने खजानेको अटूट कर सकें ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org