________________
२०७
४२-४४]
चतुर्थः सर्गः इत्यनेन भवदुक्तन, प्राप्तमिति शेषः। भवादृशामभीक्षा वाञ्छा अस्मादृशां भिक्षा भवितुमर्हति । भवतां यादृशीच्छा तथा करोमीत्यर्थः ॥ ४१॥
भाग्यवल्लिफलमेतदमुष्या अस्मदीयकरकार्यमनु स्यात् ।
या किलोपवनरक्षणतातिर्मालिहस्ततल एव विभाति ॥ ४२ ॥ भाग्येति । अमुष्या बालिकाया भाग्यमेव वल्लिलता तस्याः फलमेतदस्मदीयकरस्य कार्यमनु सदृशं स्याद्भवेत् । अत्र दृष्टान्तः-या किलोपवनस्य रक्षणतातिः संरक्षणपरम्परा सा मालिनो मालाकारस्य हस्ततल एव विभाति । 'सादृश्ये लक्षणेऽप्यनु' इति विश्वलोधनः ॥ ४२ ॥
हेऽपयोगगहनोदधिनावश्चित्तवृत्तिरपि सम्प्रति का वः । कस्त्वदीशदुहितुर्भुवि योग्यः केन सन्मणिरसावुपभोग्यः ।। ४३ ।। हेऽपयोगेति । हे अपयोगो दुरुपयोगः स एव गहनं दुःखमेवोदधिः समुद्रस्तस्य नावो वो युष्माकं चित्तवृत्तिविचारधारापि सम्प्रति का, अस्यां भुवि त्वदीशदुहितुः अकम्पनसुताया योग्यः कः ? केनासौ सन्मणिरुपभोग्यः ? ॥ ४३ ॥
इत्यमुष्य विनियोगमुपेतः कञ्चकी समनुकूलितचेतः ।
प्राह चक्रिसुत एव विशेषस्तत्समो भवतु को नरवेशः ।। ४४ ।। सुन्दर वचन बोला : 'तो फिर आपकी जैसी इच्छा हो, वैसा ही हम करेंगे। कहिये, आप क्या चाहते हैं ?' ॥ ४१॥
. अन्वय : अमुष्याः एतत् भाग्यवल्लिफलम् अस्मदीयकरकार्यम् अनु स्यात् । या किल उपवनरक्षणतातिः ( सा) मालिहस्ततले एव विभाति ।
अर्थ : उस कन्याके भाग्यरूपी लताका फल तो मेरे ही हाथमें है, जैसे उपवनकी रक्षा मालीके ही हाथ होती है ॥ ४२ ॥
अन्वय : हे अपयोगगहनोदधिनावः ! संप्रति व: चित्तवृत्तिः अपि का ? भुवि त्वदोशदुहितुः योग्यः कः ? असौ सन्मणिः केन उपभोग्यः ।। ___ अर्थ : तब वह दुर्मति बोला : 'हे दुरुपयोगरूपी गहन समुद्रमें नावका काम करनेवाले! सुनिये। आप अपने मनकी बात बतलाइये कि इनमें आपके स्वामीकी कन्याका वर होनेयोग्य कौन है ? यह मणि किसके उपभोगयोग्य है ?' ॥ ४३ ॥
अन्वय : इति अमुष्य विनियोगम् उपेतः कञ्चुकी समनुकूलितचेतः प्राह, चक्रिसुतः एव विशेषः । तत्समः नरवेशः कः भवतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org