________________
३१-३३] चतुर्थः सर्गः
२०३ स्याबदीदमहमस्मदुपायाद् दामनाम विकरोमि यथाऽयात् । तच्च नैकहदि येन पुनः स्यादुत्थिताऽतिविकटैव समस्या ॥ ३१ ॥
स्याद्यदीदमिति । यदीदमस्मदुपायात् प्रयत्नाद् अयाद् भाग्यात् स्यात् यथोचितं स्यात् ताहं दामनाम उपायं विकरोमि, तच्चकहदि न येन पुनर्विकटैव समस्या उत्थिता स्यात् ॥ ३१॥ तत्तदाप्य निगले हि विभूनामर्पणीयमिति युक्तिरनूना । एवमन्यमनुजेन निरुक्तं दुर्मतिस्तु स बभाण न युक्तम् ॥ ३२ ।।
तत्तदाप्येति । अन्यपुरुषेणैवं निरुक्तमुक्तं यत्तत्तद्दाम आप्य विभूनां नृपाणां निगले कण्ठभागेऽर्पणीयं क्षेपणीयमियमनूना महती युक्तिरस्ति । अतः सः दुर्मतिर्युक्तं न बभाण, तदुक्तमसम्भवमित्यर्थः ॥ ३२ ॥ तत्करोमि किल सा सहजेनारोपयेद्विभुगले तदनेनाः । चिन्तयेत पुरुमित्यभिराध्यं धीमतामपि धिया किमसाध्यम् ॥ ३३ ॥
तत्करोमीति । तत्तस्मात्कारणादहं किलेत्थं करोमि येन सहजेन सरलतया, अनेना निर्दोषा सा सुलोचना विभुगले तद्दाम आरोपयेन्निक्षिपेत् । पुरुषः पुरु श्रेष्ठमभिराध्यमुपायं चिन्तयेत्, धीमतां विपश्चितां धिया किमसाध्यमसम्भवमस्ति ? न किमपीत्यर्थः॥ ३३ ॥
इससे तो अपयश ही होगा। तब फिर दूसरा सेवक बोला कि मैं एक दूसरा निर्दोष उपाय बतलाता हूँ ॥ ३० ॥
अन्वय : यदि इदं स्यात् ( तदा ) अहं अस्मदुपायात् दामनाम विकरोमि। यथा तत् च नैकहृदि अयात्, येन पुनः अतिविकटा एव समस्या उत्थिता स्यात् ।
अर्थ : यदि ऐसा हो गया तो मैं उस मालाको बिखेर दूंगा, ताकि माला अनेक पुरुषोंके हृदयपर चली जाय और उससे विसंवाद खड़ा हो जाय ॥ ३१ ॥
अन्वय : तत् एवं चेत् अन्यमनुजेन निरुक्तं तत् आप्य विभूनां निगले हि अर्पणीयम् इति युक्तिः तु अनूना । पुनः सः दुर्मतिः तदपि युक्तं न बभाण'। ____ अर्थ : तब तीसरा बोला कि फिर तो तुम उस मालाको अपने उपायसे स्वामीके गलेमें ही डाल सकते हो, जो ठीक होगा। किन्तु इन सब बातोंको दुर्मतिने ठीक नहीं समझा और कहने लगा ॥ ३२॥ ___ अन्वय : तत् अभिराध्यं पुरुं चिन्तयेत । अहं तत् करोमि येन सहजैन अनेनाः विभुगले आरोपयेत् । धीमतां धिया अपि किम् असाध्यम् इति भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org