________________
२६-२८ ] चतुर्थः सर्गः
२०१ सांप्रतमुल्लसितोऽभूत् प्रसन्नो जातः । स मनाग जातुचिदपि तमसो रोषस्य स्थानं नाभूत् ॥ २५ ॥
राजकीयसदनं मतिमद्भयः प्राह सत्तनुपिताऽय भवद्भयः । । संविहाय हृदयं न गुणेभ्यः स्थानमन्यदुचितं खलु तेभ्यः ॥ २६ ॥
राजकीयेति । अथ सत्तनोः सुलोचनायाः पिता मतिमयो भवद्भचस्तेभ्योऽर्ककीर्त्यादिभ्यो राजकीयसदनं स्वनिवासयोग्यं हम्यं प्राह निवासाय प्रोक्तवान् । तेभ्यः क्षमादिभ्यो गुणेभ्यो हृदयं मनः संविहाय अन्यत्स्थानं न खलूचितम् ॥ २६ ॥
स्नानसंभजनभोजनपानानन्तरं मतिमुवाह निदानात् । अर्ककीर्तिरनुयोजनमात्रमागता वयमनर्थतयाऽत्र ॥ २७ ॥
स्नानेति । स्नानं च संभजनं च भोजनं च पानं चैतेषामनन्तरमर्ककोतिः, वयमत्रानर्थतया व्यर्थमेवानुयोजनमात्र समागच्छतु भवानिति कथनमानं यथा स्यात्तथा आगता इत्येवंरूपां मति निदानानिरादरात् मनोमालिन्यादुवाह स्वीचकार ॥ २७ ॥
याम एव सदसीह परन्तु भिन्नभिन्नरुचिमद् गुणतन्तुः । सत्तनुनेनु परं जनमश्वेत का दशा पुनरहो जनमश्चे ॥ २८॥ अर्थ : विद्वान् सुमतिका यह समुचित कथन विचारशीलोंने प्रशंसनीय कहकर हृदयसे मान लिया । अतएव अर्ककीर्ति भी पुनः प्रसन्न हो गया। उसके मनमें जरा-सा भी मेलापन नहीं रहा ॥ २५ ॥ ___अन्वय : अथ सत्तनुपिता मतिमद्भ्यः भवद्भ्यः राजकीयसदनं प्राह । तेभ्यः गुणेभ्यः हृदयं संविहाय अन्यत् उचितं स्थानं न खलु ।।
अर्थ : सुलोचनाके पिताने उन बुद्धिमानोंके निवासार्थ अपना राजभवन ही बता दिया। ठीक ही है, क्षमादि गुणोंके लिए हृदयको छोड़ दूसरा कौन-सा स्थान उचित हो सकता है ? ॥२६ ।। __ अन्वय : अर्ककोतिः स्नानसम्भजनभोजनपानानन्तरं निदानात् इमां मतिम् उवाह यत् वयम् अत्र अनुयोजनमात्रम् अनर्थतया आगताः ।
अर्थ : स्नान, भजन, भोजनादिके अनन्तर अर्ककीतिने मनोमालिन्य और निरादरके कारण सोचा कि हम लोग व्यर्थ ही कहनेमात्रसे यहाँ आ गये ॥ २७॥
__अन्वय : इह सदसि याम एव, परन्तु गुणतन्तुः भिन्नभिन्नरुचिमत् ( भवति )। अतः ननु सत्तनुः परं जनम् अञ्चेत् तदा पुनः जनमञ्चे का दशा स्यात् अहो ।
२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org