________________
२१-२२]
चतुर्थः सर्गः
इत्थमिति । इत्यं श्रुतिदेशे कर्णप्रवेशे दुग्धवन्मदु सुकोमलं वच उक्तवति काशिनरेशे सति, उर्थितं व्यर्थीकृतं माया लक्ष्म्या ओकः स्थानं येन स दुर्मतिर्नाम नरो जलौका एव, यतो दूषणं हानिकरं विचचार चिन्तयामास ॥ २०॥
दत्तमस्त्यपि निमन्त्रणपत्रमत्र येन च भवान् गिरमत्र । दुग्धतो हि नवनीतमुदेति गौस्तृणानि हि समादरणेऽत्ति ।।२१।। दत्तमिति । स इत्यमुक्तवान्-अपि कि निमन्त्रणपत्रं वत्तमस्ति भवता येन भवान् अत्रावसरे गोर्वागमत्रं पात्रं यस्य स एवम्भूतः सन्नेवमुवाहरति ? हि यस्मा गौः समादरणे कृते सति तृणान्यत्ति, तस्या दुग्धतो नवनीतमुदेति ॥ २१॥
काशिकापतिरितो नतिमाप वायुनाघ्रिप इवायमपापः । तत्र तस्य सचिवेन सदुक्तं वाच्यमेव समये खलु युक्तम् ।।२२॥ काशिकेति । वायुनाऽज्रिप इव वृक्ष इव, अपापः कुटिलतारहितः काशिकापतिः अकम्पन इतः कथनात् नतिमाप लज्जितोऽभूत् । तत्र तस्य सचिवेन मन्त्रिणा सत्प्रशस्यमुक्तम्, यतः समये यत् युक्तं तद् वाच्यमेव ॥ २२ ॥
अर्थ : सुनने में दूधके समान उज्ज्वल काशीनरेशने ये जो मीठे वचन कहे, उनपर भी दुर्मति जोंकको तरह अवगुण ही विचारने लगा ॥ २०॥
अन्वय : ( किम् ) भवता निमन्त्रणपत्रम् अपि दत्तम् अस्ति, येन च अत्र भवान् गिरम् उदेति । हि गौः समादरणे तृणानि अत्ति । ( तस्याः ) दुग्धतः नवनीतम् उदेति ।
अर्थ : दुर्मति कहने लगा कि हे राजन् ! आप आग्रह तो करते हैं, किंतु क्या आपने हमें निमंत्रणपत्र भी दिया था, जिससे आप ऐसा कहनेके अधिकारी हों ? सोचिये तो सही कि मक्खन गायके दूधसे ही निकलता है और बिना आदरके गाय भी घास नहीं खाती ॥ २१ ।।
अन्वय : अपापः अयं काशिकापतिः वायुना अध्रिपः इव इतः नतिम् आप। तत्र तस्य सचिवेन सत् उक्तम् । समये खलु युक्तं वाच्यम् एव ।
अर्थ : यह सुनकर जैसे वायुसे वृक्ष झुक जाता है, वैसे ही सरलहृदय अकम्पन महाराज तो झुक गये। किंतु वहां उनके मंत्रीने निश्चय ही समयोचित और समुचित सुंदर वचन कहा, जो कहना ही चाहिए ॥ २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org