SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १९८ जयोदय-महाकाव्यम् [ १८-२० तं प्रणनाम प्रणतवान् । अपि च यदेव ललाम रमणीयं वक्ष्यमाणप्रकारेण प्रोक्तवान् ॥ १७॥ पादपद्यरुचयः शुचयोऽपि ह्याव्रजन्तु भवतोऽनुनयोऽपि । सेवकस्य च कुटी रमयन्तु सौरभाश्रयणमाशु नयन्तु ॥१८॥ पादपोति । भवतः श्रीमतः शुचयः पवित्राः पादपद्मयो रुचय आव्रजन्तु समागच्छन्तु । अपि पुनरनुनयोऽपि विनयोऽपि, श्रूयतामिति शेषः। सेवकस्य मम कुटीं च रमयन्तु भवतां पादपद्मरुचयस्तथा कृत्वा सौरभस्य सुगन्धस्याश्रयणम् । पक्षे सूरस्याऽसौ सौरा, सा चासौ भा च, तस्याः श्रयणमाशु नयन्तु ॥ १८॥ यौवनादिमसरिद्भवमः स्यात्स्वयंवरविधिर्दुहितुर्मे । श्रीमतां नयनमीनयुगस्यानन्दहेतुरियमत्र समस्या ।। १९ ।। यौवनादिमेति। यौवनस्यादिमा नवयौवनरूपा या सरिनदी तस्यां भवन्ती अमियस्याः सा तस्याः, मे दुहितुस्तनयायाः स्वयंवरविधिः श्रीमतां भवतां नयनमीनयुगस्य नेत्रमत्स्ययुग्मस्य आनन्दहेतुः स्यादियमत्र समस्या समाचारो वर्तत इति ॥ १९॥ इत्थमुक्तवति काशिनरेशे दुग्धवन्मृदुवचः श्रुतिदेशे । दूषणं स विचचार जलौका एव दुर्मतिरुदर्थितमौकाः ।। २०॥ ___अर्थ : भरतके पुत्र अर्ककोतिको आया जानकर अकम्पनने हाथमें भेंट लेकर उनकी अगवानी (स्वागत ) की और वह समयोचित सुन्दर वचन बोला ॥१७॥ अन्वय : भवतः शुचयः पादपद्मरुचयः आव्रजन्तु । अपि ( च ) सेवकस्य कुटी रमयन्तु । आशु सौरभाश्रयणं नयन्तु इति अनुनयः अपि अस्ति । अर्थ : आपके पवित्र चरणकमल पधारें और मुझ दासको कुटीको सौरभसे युक्त तथा देवताओंके रमण योग्य बना दें ॥ १८ ॥ अन्वय : यौवनादिमसरिद्भवदुर्मेः मे दुहितुः स्वयंवरविधिः स्यात्, इयं समस्या अपि श्रीमतः नयनमीनयुगस्य आनन्दहेतुः स्यात् । अर्थ : मेरी पुत्रीका, जो कि यौवनरूपी नदोकी प्रथम तरंग है, स्वयंवर होनेवाला है, यह सुवृत्त भी आपके नयनरूपी मीनोंको प्रसन्न करनेवाला हो ॥१९।। अन्वय : इत्थं श्रुतिदेशे दुग्धवत् मृदु वचः उक्तवति काशिनरेशे उदथितमौकाः सः दुर्मतिः जलोकाः दूषणस्य इव विचचार । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy