________________
१६-१७ ]
चतुर्थः सर्गः
१९७
आसमन्तात् मोदं हषं ददातित्यामोददा, इति प्रकारेण । ननु नियमतः, तु पादपूरणे ॥ १५ ॥ पाणिनीयकुलकोक्तिसुवस्तु पूज्यपादविहितां सुदृशस्तु | सर्वतोऽपि चतुरङ्गतताभिः काशिकां ययुरमी धिषणाभिः ।। १६ ।।
पाणिनीयेति । अमी सर्वे अर्ककीर्त्यादय काशिकां नगरों तथा काशिकानामाष्टाध्याय्या उपरि कृतां वृत्ति सर्वतोऽपि समन्तादपि धिषणाभिर्बुद्धिभिः ययुः प्रापुः । कथम्भूताभिः बुद्धिभिः ? तुरङ्गेघटकैस्तताभिः व्याप्ताभिः । च पादपूरणे । पक्षे चतुभिरङ्गेः अध्ययनाध्यापनाचरणप्रचारणस्तताभिः । कीदृशीं काशिकाम् ? पाणिना हस्तेन नीया प्रापणीया यासौ कुलकोक्तिः श्रेष्ठोक्तिः इयमतिसन्निकटप्राप्तेति रूपा तस्याः । सुवस्तु तु पुनः सुदृशः सुलोचनायाः पूज्याभ्यां पादाभ्यां विहितां प्रकाशिताम् । पक्षे पाणिनीया पाणिनि सम्बन्धिनी या कुलकोक्तिः सैव सुवस्तु, तदुपरि पूज्यपादेन विहिताम् । 'कुलकस्तु कुलश्रेष्ठे' इति विश्वलोचनः । सुदृशो मनोहराक्षा अमी जना ययुरिति भावः ॥ १६ ॥
आगतं भरतभूपतुजं तं चैत्यकाशिपतिरुत्तमसन्तम् । सोपहारकरणः प्रणनाम प्रोक्तवानपि यदेव ललाम || १७|
आगतमिति । उपहारस्य करणमुपहारकरणं तेन सहेति सोपहारकरणः सोपायनसाधनः चैत्यकाशिपतिरागतं समायातमुत्तमसन्तं श्रेष्ठसज्जनं भरतभूपस्य तुजं पुत्रमर्ककीर्ति
ओर तरु लगे हुए हैं। सुलोचना प्रसन्नता देनेवाली है तो यह सड़क भी वृक्षोंकी छाया के कारण सुगंधित है । सुलोचना विनोदवाली है तो सड़कपर भी फल और फूल लगे हैं ।। १५ ।।
अन्वय : अमी सर्वतः अपि चतुरङ्गतताभिः धिषणाभिः पाणिनीयकुलकोक्तिसुवस्तु सुदृशः तु पूज्यपादविहितां काशिकां ययुः ।
अर्थ : ये लोग अपने घोड़ोंकी पंक्तिद्वारा सर्वत्र चार तरहसे विस्तारको प्राप्त होनेवाली अपनी बुद्धिसे सुलोचनाके आदरणीय चरणोंसे युक्त काशिका - नगरीको हाथके इशारेमात्र में, शीघ्र पहुँच गये । समासोक्ति में इसका दूसरा अर्थ यह भी लिया जा सकता है कि अध्ययन, बोध, आचरण और प्रचारण इन चार रूपोंसे सर्वत्र फैलनेवाली अपनी बुद्धिद्वारा पूज्यपादाचार्यकी पाणिनीय व्याकरणपर बनायो 'काशिका' - वृत्तिको इन लोगोंने प्राप्त किया ।। १६ ।।
अन्वय : सोपहारकरणः काशिपतिः आगतम् उत्तमसन्तं भरतभूपतुजं एत्य प्रणनाम । अपि च यदेव ललाम, तत् प्रोक्तवान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org