________________
१९४
जयोदय- महाकाव्यम्
[ ९-१०
वेद्य प्रार्चनीकृत्य पूजयित्वा पुनर्देवानां दानवानाञ्च मध्ये बलस्यायित अधीनः क आत्मा यस्य तस्य किल कस्य सम्भाव्यमानस्य परीक्षणं स्यादहो इदमाश्चर्ये ॥ ८ ॥
हे महीशमहनीय नयन्तु दृक्पथं भुवि धियाऽभिनयन्तु । श्रीमतः प्रथम इत्यधिकारः किं विधोः शरदि नाप्युपचारः ।। ९ ।।
हेमहीशेति । हे महीशमहनीय भूपतीनां पूज्यकीर्ते भुवि घरायां जातमिति शेषः । अभिनयं आश्चर्यस्थानं श्रीमतो धियो बुद्धयोऽपि दृक्पथं नयन्तु पश्यन्तु । श्रीमतोऽत्र प्रथमोऽधिकारः । शरदि वर्षावसानसमये विधोश्चन्द्रस्यापि उपचारः सङ्गमो नास्तु किम्, सर्वप्रथम एवास्तु ॥ ९ ॥
यास्यतीव हि भवान् स्विददीनं भोज्यमस्तु लवणेन विहीनम् । वञ्चिताः स्म किमुपायपदे ते श्रीमतामनुचरा वयमेते ॥ १० ॥
यास्यतीति । भवान् यास्यतीव हि यतोऽदीनमुत्तमं भोज्यं लवणेन विहीनं रहितमस्तु स्वित् किमिति काकुरूपम् । यथा चेते वयं श्रीमतामनुचरा आज्ञाकारिणस्ते चास्मिन्नुपायपदे समालब्धुं योग्यस्थाने वञ्चिताः स्म भवाम ? लोटोsस्मत्पुरुषबहुवचनम् । किमिति प्रश्ने ॥ १० ॥
अर्थं : साबुन से स्नानकर और भगवान् के चरण में प्रार्थना करके देव और दानवोंके बीच बलके अधीन आत्मावाले किसकी परीक्षा होगी, यह आश्चर्य की बात है ॥ ८ ॥
अन्वय : हे महीशमहनीय ! भुवि ( जातम् ) अभिनयं तु श्रीमतः धियः अपि दृक्पथं नयन्तु । श्रीमतः अत्र प्रथमः अधिकारः । शरदि विधोः अपि किम् उपचारः न ।
अर्थ : हे महीशोंमें आदरणीय महाराज, पृथ्वीपर होनेवाले इस उत्सवको आपकी बुद्धि भी देखे । इस विषय में आपका तो सबसे प्रथम अधिकार है । क्या शरदऋतु में चाँदकी पूछ नहीं होती ? होती ही है ॥ ९ ॥
अन्वय : भवान् यास्यति इव । हि अदीनं भोज्यं लवणेन विहीनं स्वित् अस्तु ? एते वयं श्रीमताम् अनुचराः अस्मिन् उपायपदे कि वञ्चिताः स्म ।
अर्थ : आप तो अवश्य चलेंगे ही, क्योंकि उत्तम भोजन लवणसे रहित थोड़े ही होता है ? भला आपके अनुचर हम लोग इस उत्सव को देखे बिना कभी रह सकते हैं ? ।। १० ।i
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org