________________
जयोदय-महाकाव्यम्
[ १०८-१०९
पुरन्ध्रीति । पुरन्ध्रोजनेन पोरनारीसमूहेन बत्ता वाऽऽशीः शुभाशंसा, तन्निमितो यो विकासकुसुमानामञ्जलिः प्रसृतिस्तं श्रयन् सेवमानो गोपपतिर्नृपवरो गोपुरं पुरद्वारं शनैः शनैः प्राप प्राप्तवान् । यथा गोपपतिर्धेनुरक्षको वृद्धस्त्रीजनसमर्पितां कुसुमाअलिशब्देन अक्षितां हरिताङ कुरततिमावाय शनैर्गोपुरं धेनुकं प्राप्नोतीति ॥ १०७ ॥
१८६
अत्याक्षीद् दूरतः सद्भिः सेवितः सदनाश्रयम् । अनीतिप्रथितं राजा नीतिमान् पुरमप्यसौ ॥ १०८ ॥
अत्याक्षीदिति । असौ राजा जयकुमारः पुरमपि दूरतोऽत्याक्षीत्, नगरं विहाय दूरमगावित्यर्थः । तत्र हेतुत्वेनोच्यते-यतो राजा नीतिमान् न्यायमार्गानुयायी, पुरं पुनरनीतिप्रथितं दुराचारयुक्तम्, अतोऽत्याक्षीत् । पुरं तु तत्वतस्तावदीतिभिरतिवृष्टयाविभिः प्रथितं न भवतीत्यनीतिप्रथितम्। तथा च राजा सद्भिः सज्जनैः सेवित आराधितो युक्त आसीत् । पुरं सदनाश्रयं सतामनाश्रयमिति कृत्वाऽत्याक्षीत्, यत्पुरं किल सवनानां गृहाणामाश्रयभूतं वर्तते । विरोधाभासः ॥ १०८ ॥
समुदङ्गः समुदगाद् मार्गलं मार्गलक्षणम् ।
नरराट् परराड्वैरी सत्वरं सवरञ्जितः ।। १०९ ।।
समुदङ्ग इति । नरराट् स नरनाथः । कीदृशः, यः परराजानां शत्रुभूपानां वैरी नाशकः । तथा सत्त्वेन बलेन रञ्जितः शोभितः । अत एव मुत्सहितमङ्गं यस्य सः प्रफुल्लितशरीरो मार्गलक्षणं वत्र्त्मस्वरूपं मायाः मनोऽभिलषितायाः लक्ष्म्या अलं प्रति
अर्थ : वृद्धा स्त्रियों द्वारा दिये गये आशीर्वादरूपी कुसुमांजलिको ग्रहण करता हुआ वह जयकुमार धीरे-धीरे चलकर नगर के द्वारपर पहुँचा ॥ १०७ ॥ अन्वय : असी सद्भिः सेवितः नीतिमान् राजा सदनाश्रयम् अनीतिप्रथितं पुरम् अपि दूरतः अत्याक्षीत् ।
अर्थ : इसके बाद राजा जयकुमारने पुरको भी छोड़ दिया, क्योंकि राजा तो सत्पुरुषोंसे सेवित और नीतिमान् था और पुर 'सदनाश्रय' अर्थात् सज्जनोंके आश्रयसे रहित था । दूसरे अर्थ में वह अच्छे मकानोंसहित था और पुर तो अनीतियुक्त भी था, अर्थात् ईति-भीतियोंसे रहित, सुखी था ॥ १०८ ॥
अन्वय : परराड्वैरी नरराट् सस्वरञ्जितः समुदङ्गः सत्वरं मार्गलक्षणं मार्गल समुदगात् ।
अर्थ : प्रसन्नचित्त, दूसरे राजाओंका शत्रु, साहसी और बलवान् वह जय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org