________________
१८५
१०५-१०७]
तृतीयः सर्गः साधु प्रसाधनं तस्य समालोक्य विशांपतेः ।
दधुर्नार्योरयश्चैव कन्दर्प स्विदपत्रपाः ॥ १०५ ॥ साध्विति । तस्य विशांपतेमहाराजस्य साधु मनोहरं प्रसाधनं वस्त्राभूषणालङ्करणं समालोक्य नार्यः स्त्रियोऽपगता त्रपा यास ता निर्लज्जाः सत्यः कन्दर्प कामभावं वधुरदधुः। स्वित् पुनः अरयः शत्रवोऽपत्रपाः सन्तः कं दर्पमभिमानं वधुन कमपीत्यर्थः। यस्य चारपरिवेषमालोक्य योषितः कामातुरा जाताः, शत्रवश्च नष्टवर्पा बभूवुरित्याशयः। श्लेषोऽलङ्कारः ॥ १०५ ॥
प्रसत्तिर्मनसो वक्ति कार्यसम्पत्तिमत्र वै ।
इत्यनन्यमनस्कारैः प्रस्थानं कृतवाञ्जवात् ॥ १०६ ॥ प्रसत्तिरिति । अत्र लोके मनसश्चित्तस्य प्रसत्तिः प्रसावः कार्यसम्पत्ति प्रयोजनसिद्धि वक्ति, इत्यतः स राजानन्या वृढा निश्चिता ये मनस्काराश्चित्ताभोगास्तेः जवात् प्रस्थानमकरोत् ॥ १०६॥
पुरन्ध्रीजनदत्ताशीर्विकासिकुसुमाञ्जलिम् ।
श्रयन् गोपपतिः प्राप गोपुरं स शनैः शनैः॥ १०७ ॥ अर्थ : उसके वक्षस्थलपर अत्यन्त दीप्तिमान् हार था। वह ऐसा शोभित हो रहा था, जैसे सुमेरुपर्वतके तटपर देवगंगाके जलका प्रवाह शोभित हो रहा हो ॥ १०४॥
अन्वय : यस्य विशांपतेः साधु प्रसाधनं समालोक्य नार्यः कन्दपं दधुः एव । स्वित् अरयः च अपत्रपाः कंदपं दधुः । ___ अर्थ : महाराज जयकुमारके सुन्दर सौन्दर्य-प्रसाधनको देख स्त्रियाँ निर्लज्ज हो कामाविष्ट ही हो गयीं। इसी तरह उसके समुचित युद्ध-प्रसाधन देख उसके शत्रुगण भी निर्लज्ज बन कैसा अभिमान धारण कर सकते थे ? किसी तरहका नहीं, यह भाव है ।।१०५॥
अन्वय : अत्र मनसः प्रसक्तिः कार्यसम्पत्ति वक्ति, इति अनन्यमनस्कारः जवात् (सः) प्रस्थानं कृतवान् ।
अर्थ : इस लोकमें मनको प्रसन्नता कार्यसिद्धिकी सूचक होती है, इसलिए उस राजा जयकुमारने मानसिक प्रसन्नताके साथ शीघ्र प्रस्थान किया ॥१०६॥
अन्वय : सः गोपपतिः पुरन्ध्रीजनदत्ताशीः विकाशिकुसुमाञ्जलिं श्रयन् शनैः शनैः गोपुरं प्राप।
२५ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org