________________
१८४ जयोदय-महाकाव्यम्
[१०२-१०४ सज्जीकृतं स्वीचकार परं परिकरं नृपः ।
शोभते शोचिषां सार्थेस्तेजस्वी तपनोऽपि चेत् ॥ १०२ ॥ सज्जीकृतमिति । नृपो राजा सज्जीकृतं सम्यक्संपादितं परं श्रेष्ठं परिकरं भृत्यकर्यश्वादिसाधनसामग्री स्वीचकार स्वेन सह नीतवानित्यर्थः। चेद्यतस्तेजस्वी तपनोऽपि सूर्योऽपि शोचिषां किरणानां साथैः समूहैः शोभते । अर्थान्तरन्यासः ॥ १०२ ॥
स्वर्गश्रियः प्रेममुक्तापाङ्गसन्तानमञ्जुलः ।
पतन् पार्वे मुहुर्यस्य चामराणां चयो बभौ ।। १०३ ।। स्वर्गश्रिय इति । यस्य पाश्र्वे पक्षभागाभ्यां समागत्य पुरोभागे मुहुः पतञ्चामराणां चयः समूहः स्वर्गश्रियः सुरपुरलक्ष्म्याः प्रेम्णा मुक्तः प्रेषितोऽपाङ्गानां कटाक्षाणां यः सन्तानो. ऽविच्छिन्नप्रवाहस्तद्वत् मझुलो मनोहरो बभौ रेजे ॥ १०३ ॥
स्वर्णदीसलिलस्यन्दः स्वर्णशैलतटे यथा ।
स्फुरकान्तिचयो हारस्तस्योरसि लुठन् बभौ ॥ १०४ ॥ स्वर्णदीति। तस्योरसि जयकुमारवक्षःस्थले लुठन्नितस्ततः परिलसन्, स्फुरश्चमत्कुर्वन् कान्तीनां चयः समूहो यस्य स हारः कण्ठाभरणं तथा बभौ, यथा स्वर्णशैलतटे सुमेरुपर्वतशिलातले पतन स्वर्णदीसलिलस्य आकाशगङ्गाया जलस्य स्यन्दो निर्झरः शोभते । उपमालङ्कारः ॥ १०४ ॥
अन्वय : नृपः सज्जीकृतं परं परिकरं स्वीचकार । चेत् तपनः अपि तेजस्वी शोचिषां सार्थः शोभते । __ अर्थ : प्रस्थान करते समय जयकुमारने अपने साथ उच्चकोटिके कुछ आवश्यक नौकर-चाकर भी ले लिये थे। क्योंकि यद्यपि सूर्य स्वयं तेजस्वी है, फिर भी किरणोंके बिना उसकी शोभा नहीं होती ॥ १०२ ॥
अन्वय : यस्य पावें महः पतन चामराणां चयः स्वर्गश्रियः प्रेममुक्तापाङ्गसन्तानमञ्जुलः बभौ ।
अर्थ : चलते समय उसके दोनों ओर चँवर ढल रहे थे। वे ऐसे मालूम पड़ रहे थे कि स्वर्गश्रीके प्रेमपूर्ण कटाक्षोंका समूह ही हो ।। १०३ ।। ___अन्वय : तस्य उरसि लुठन् स्फुरत्कान्तिचयः हारः यथा स्वर्णशैलतटे स्वर्णदीसलिलस्यन्दः ( तथा ) बभौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org