________________
१००-१०१]
तृतीयः सर्गः प्रवालजलजाताभ्यां चरणौ च रणोत्सुको ।
मिषेणोपानहोस्तस्याप्यभूतां वर्मितावितः ॥ १०० ।। प्रवालेजलेति। प्रवालजलजाभ्यां किसलयपङ्कजाभ्यां सह रणोत्सुको युखाभिलाषिणी तौ तस्य चरणी, उपानहोः मिषाद व्याजेन इतोऽधुना वर्मिती कवचितो अभूताम् । युद्धायिनः कवचधारणं समाचारः। अत एव तच्चरणावपि कवचस्थानीये पादत्राणे पर्यधाताम्, यतस्तो युद्यार्थिनी स्वप्रतिद्वन्द्विभ्यां प्रवालपङ्कजाभ्याम् ॥ १० ॥
अमानवचरित्रस्य महादर्श किलेक्षितुम् ।
सूर्याचन्द्रमसावास्यं रेजाते कुण्डलच्छलात् ॥ १०१ ॥ अमानवेति । न मानवोऽमानवो देवस्तस्य चरित्रमिव चरित्रं यस्य तस्य अमानवचरित्रस्य महावर्शमनुकरणीयमास्य मुखमीक्षितुम्, आगतौ इति शेषः । सूर्याचन्द्रमसौ किल कुण्डलच्छला अपवेशाद् रेजाते, महाप्रभावत्वात् तन्मुखस्य । पुनः अमा च अमावास्यातिथिस्तस्या नवं नूतनं चरित्रमिव चरित्रं यस्य तस्य अमानवचरित्रस्येति वा। महाश्चासी वर्शश्च तं महावर्शनमावास्यातिथिमेवास्याऽऽस्यं मुखं द्रष्टुमिति । यतः किल अमावास्यायां सूर्येन्दुसङ्गमो भवतीति ख्यातिः। यद्वा, मा लक्ष्मीः न मा भवतीत्यमा, ततो नवं नवीन. मद्भुतं चरित्रं यस्य तस्य धीयुक्तस्य महादर्श वर्पणमिव मुखं सुविशवत्वात् । तदृष्टात्मगतान् दोषानपहर्तुमित्यप्यर्थः ॥ १०१॥
___अन्वय : च प्रवालजलजाताभ्यां रणोत्सुको तस्य चरणो अपि इतः उपानहोः मिषेण वभितो अभूताम् ।
अर्थ : और उसके चरण मानो प्रवाल ( कोंपल ) तथा कमलोंके साथ रण करनेके लिए उद्यत थे । इसीलिए उन्होंने उस समय पादुकाके व्याजसे कवच हो धारण लिये हों।। १००।
अन्वय : अमानवचरित्रस्य महादर्शम् आस्यम् ईक्षितुं कुण्डलच्छलात् सूर्याचन्द्रमसी रेजाते किल।
अर्थ : अमावस्याको सूर्य और चन्द्रमा दोनों एक जगह होते हैं, इस लोकप्रसिद्धिको लेकर कहा गया है कि जयकुमार अमानव-चरित्र था, अर्थात् मनुष्योंमें असाधारण चरित्रवाला था। अतः उसके मुंहको महादशं ( या महान् दर्पण) समझकर निश्चय ही उसमें अपनी आकृति देखनेके लिए चन्द्र और सूर्य दोनों आकर कुण्डलोंके व्याजसे सुशोभित हो रहे हैं ॥ १०१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org