________________
८८ ]
तृतीयः सर्गः
१७७
सुकन्दशम्प इति । पुनर्हे सुन्दर, परस्परं सुकन्द-शम्पे, कं जलं ददातीति कन्दो मेघः; शम्पा तडित् शं शान्ति पातीति शम्पा, तद्वितयं संयोजयतः । कलङ्कोऽस्यास्तीति कलङ्की चन्द्र:, रात्रिरन्धकारपूर्णा तमिला च, तयोः सम्बन्धं विवधतः । किञ्च विषमत्ति विषादी रुद्रः, दुःखेन गम्यत इति दुर्गा, तौ संयोजयतः । एवञ्च स्मरः स्मरणयोग्यः कामः, शर्मपात्री रतिः, तयोः सम्बन्धं घटयता । विधेर्भाग्यस्यापि पुनरभ्युपायः प्रबन्धो योग्यसमागमाय भवतीति कृत्वा भवताऽधिकविचारणा न कार्याऽस्मिन् प्रसङ्गे । यद्यपि स्मरशमंपात्रीत्यत्र द्विवचनमपेक्षते, तथापि छन्दोऽलङ्कारानुरोधात् तथा पठितं कविना । समालङ्कारः ॥ ८७ ॥
अदृश्यरूपा वितनो रतिर्व्यभादभूत् सुभद्रा भरतस्य वल्लभा । वरिष्यति त्वां तु सतीति सत्तम चकास्ति योग्येन हि योग्यसङ्गमः ॥ ८८ ॥
अदृश्यरूपेति । वितनोस्तनुरहितस्य अनङ्गस्य स्त्री रतिश्चादृश्यरूपा न दृश्यते रूपं मूर्तिर्यस्याः सा व्यभात् शुशुभे । तथा च भरतस्य भेषु नक्षत्रेषु चमत्कारकेषु रतस्यानुरक्तस्य तस्य भरतस्य चक्रवर्तिनो वल्लभा पत्नी सुभद्राऽभूत् । तथैव हे सत्तम, सज्जनोत्तम, सती सुलोचना स्वामेव वरिष्यति, यतो योग्येनैव योग्यसङ्गमश्चकास्ति शोभते । समालङ्कारः ॥ ८८ ॥
अर्थ : देखा जाता है कि विधाताने 'कन्द' ( जल देनेवाले ) यानी मेघके साथ 'शम्पा' ( सुख देनेवाली ) यानी बिजलीका, कलंकी चन्द्रके साथ काली रात्रिका, विषादी (विषभक्षक ) महादेव के साथ दुर्गा ( दुःखसे गम्या ) पार्वतीका और 'स्मर' ( स्मरण-योग्य ) कामदेव के साथ शर्मकारिणी रतिका समागम कराया है । इसलिए हम समझते हैं कि उसका प्रबन्ध सदैव योग्योंके ही परस्पर समागम के लिए हुआ करता है । अतएव आप इस विषममें अधिक विचार न करें ॥ ८७ ॥
अन्वय : हे सत्तम वितनोः अदृश्यरूपा रतिः व्यभात् । भरतस्य सुभद्रा वल्लभा अभूत् । इति त्वां तु सा सती वरिष्यति । हि योग्येन योग्यसङ्गमः चकास्ति ।
अर्थ : हे सज्जनोत्तम ! शरीररहित कामदेवसे ही अदृश्यरूपा रतिका संबंध सुशोभित होता है । सुभद्राका सम्बन्ध चक्रवर्ती भरत ( नक्षत्र, चमत्कारों में रत ) महाराज से हुआ । इसे देखते हुए निश्चय ही वह सती आपको ही वरेगी । क्योंकि योग्यके साथ योग्यका सम्बन्ध ही सुशोभित हुआ करता है ॥ ८८ ॥ २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org