________________
जयोदय- महाकाव्यम्
[ ८६-८७
मतिमिति । हे सुन्दर, नरनाथपुत्री सा न जाने क्व कस्मिन् राजकुमारे मतिमनुर्मात कुर्यादेवं विचार्य पुनर्भवान् अखर्वसूत्री दीर्घविचारवान् न भवेत् । यतः किलेष्टे प्रमेयेऽभीष्टवस्तुनि विद्वान् विवेकशाली जनः प्रयतेतैव, विधेर्भाग्यस्य मनस्तु किं स कुर्यादिति सम्प्रति कश्छद्मस्थात्मा विद्वान् ज्ञातवान् । किन्तु इति प्रश्ने, अर्थान कोऽपि जानीयादिति । अत्र हेत्वलङ्कारः ॥ ८५ ॥
१७६
सौन्दर्यमात्रा त्वयि भो सुमात्रा प्रसूत मे सच्छकुनैस्तु यात्रा | श्रीमन्तमन्तः शय वैजयन्ती त्यक्त्वान्यमिच्छेन्न धियो जयन्ति ॥ ८६ ॥
सौन्दर्येति । भो सुमात्रा श्रेष्ठजनन्या प्रसूत उत्पादित, त्वयि भवति सौन्दर्यस्य रामणीयकस्य मात्रा महती सत्ता, विद्यत इति शेषः । पुनमें यात्रापि सच्छकुनैः शोभनलक्षणः जाताऽभूत् । इति कृत्वा सा कुमारी, अन्तःशयः कामस्तस्य वैजयन्ती पताका सुलोचना श्रीमन्तं भवन्तं त्यक्त्वाऽन्यमितरम् इच्छेवभिलषेद् इत्यर्थं धियो बुद्धयो न जयन्ति न स्वीकुर्वन्ति, यतो बाला सौन्दर्यार्थिन्यो भवन्ति, शकुनानि च फलन्त्येवेति ॥ ८६ ॥
सुकन्दशम्पे च कलङ्किरात्री विषादिदुर्गे स्मरशर्मपात्री ।
विधेश्च संयोजयतोऽभ्युपायः परस्परं योग्यसमागमाय ॥ ८७ ॥
अर्थ : वह सुलोचना न जाने किसे वर ले, आप ऐसी दीर्घं विचारधारामें, सोच-विचार में मत पड़िये। क्योंकि विद्वान्का कार्य है कि वह अपनी अभीष्टसिद्धिके लिए प्रयत्न करता रहे। इसके बाद दैवकी रुख क्या है, इसे आज कौन जानता है ॥ ८५ ॥
अन्वय : भो सुमात्रा प्रसूत त्वयि सौन्दर्यमात्रा ( विद्यते ) । तु मे यात्रा सच्छकुनै: ( जाता ) । ततः सा अन्तःशयवैजयन्ती श्रीमन्तं त्यक्त्वा अन्यम् इच्छेत् इति धियः न जयन्ति ।
अर्थ : हे श्रेष्ठ जननीके लाल ! देखो, पहली बात तो यह है कि आपमें सौंदर्य की मात्रा अद्भुत है । दूसरी बात मैं जब वहाँसे रवाना हुआ तो अच्छेअच्छे शकुन हुए । इसलिए बुद्धि यह मानने को तैयार नहीं कि कामदेवकी पताका वह सुन्दर राजकुमारी आपको छोड़ दूसरेको चाहती है । कारण स्त्रियाँ सौन्दर्यार्थिनी होती हैं और शुभ शकुन भी फलते ही हैं ॥। ८६ ।।
अन्वय : सुकन्द-शम्पे कलङ्कि-रात्री विषादि दुर्गे च स्मर- शर्मपात्री संयोजयतः विधेः च परस्परं योग्यसमागमाय अभ्युपायः अस्ति ) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org