________________
१७४
जयोदय-महाकाव्यम्
[ ८२-८३ माश्च ब्रह्मचर्यादयस्तेषां छविः शोभा तस्या त्राणं परिरक्षणं येषु ते । मत्तवारणवन्दनवारः पक्षे मतहस्तिभी राजिताः शोभिताः । श्रीमन्ति यानि तोरणानि पुरद्वाराणि ततोऽत्र तसिलप्रत्ययः, पक्षे श्रीमत एव श्रीमत्तोरणतः सङ ग्रामतः स्थिताः स्थितिमन्तो न तु पलायनशीला इत्यर्थः । श्लिष्टोपमालङ्कारः ॥ ८१॥
पयोधरसमाश्लिष्टा ध्वजाली विशदांशुका ।
तलुनीव लुनीते या विभ्रमैः श्रममङ्गिनाम् ॥ ८२ ॥ पयोधरेति । यत्र ध्वजाली पताकाततिः सा तलुनी युवतिरिव भवति, यतः सा पयोधरैः मेधैः समाश्लिष्टा स्पृष्टा अत्युच्छितत्वात्, पक्षे पयोधराभ्यां स्तनाभ्यां समाश्लिष्टा युक्ता। विशदं निर्मलमंशुकं वस्त्रं यस्याः सा । विभ्रमैश्चलभावः, पक्षे विलासैः स्त्रीस्वभावजातैः अङ्गिनां समागतप्राणिनां श्रमं लुनीतेऽपहरति । यां दृष्ट्वाऽपश्रमास्ते भवन्तीत्यर्थः । सानुप्रासा श्लिष्टोपमा ॥ ८२ ॥
यत्र गन्धोदसंसिक्ताः कीर्णपुष्पाश्च वीथयः ।
हर्षोत्कर्षतया स्विन्ना रोमाञ्चैरिव मण्डिताः ॥ ८३ ॥ ___ यत्रेति । यत्र पुरे गन्धोदकेन सुगन्धिजलेन संसिक्का उक्षिताः, कोर्णानि इतस्ततः क्षितानि पुष्पाणि यासु ता एतादृश्यो वीथयो मार्गोपमार्गगता गृहतटीपङक्तयो हर्षस्य प्रमोदस्योत्कर्षो वृद्धिभावो यस्य तस्य भावस्तया प्रसन्नतयेत्यर्थः। स्विन्नाः स्वेदयुक्ता
हैं और शोभनीय तोरणवाले हैं ।। ८१ ॥
अन्वय : यत्र या ध्वजाली पयोधरसमाश्लिष्टा विशदांशुका ( वर्तते ) सा विभ्रमः तलुनी इव अङ्गिना श्रमं लुनीते ।
अर्थ : वहाँके भवनोंपर फहगती हुई सफेद वस्त्रकी बनी और बादलोंको छुतो जो ध्वजाओंकी पंक्ति है, वह तरुणीको तरह अपने फहराने या अपने साथ चलनेवाले पक्षियोंके भ्रमणके सहित प्राणियोंकी परिश्रम दूर कर देती है। तरुणी भो सफेद साड़ी पहने और सघन कुचोंवाली होती है एवं अपने हावभाव द्वारा लोगोंके मन लुभाती और श्रम-शान्ति करती रहती हैं ।। ८२ ।।
अन्वय : यत्र गन्धोदसंसिक्ता: च कोर्णपुष्पाः वीथयः हर्षोत्कर्षतया स्विन्नाः ( च ) रोमाञ्चैः मण्डिताः इव ( भान्ति )।
अर्थ : जहाँको गलियां सुगंधित जलसे सिंचित हैं, वहां चारों ओर फूल बिखेरे गये हैं। इसलिए ऐसी लगता है, मानो हर्षके अतिरेकसे पसीने में तर हो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org