________________
जयोदय- महाकाव्यम्
[ ७४-७५
हिरण्यगर्भेति । हिरण्यगर्भेण तुल्यं हिरण्यगर्भवद् ब्रह्मवत् ख्यातं प्रसिद्धं चतुर्णां मुखानां समाहारश्चतुर्मुखं, तस्य भावस्तया चतुर्मुखतया स्थितम् । यथा ब्रह्मा मुखचतुष्टयेन तिष्ठति तथैवेदं मण्डपमपि चतुर्द्वारमा सोवित्यर्थः । पुनः कथम्भूतं कस्याश्चित् सुभ्रुवः शोभने भ्रुवौ यस्याः तस्याः सुलोचनायाः कामकर्म विवाहकार्यमुद्दिश्य स्थितम् । उपमालङ्कारः ॥ ७३ ॥
१७०
शृङ्गोपात्तपताकाभिराह्वयन् स्फुटमङ्गिनः । मरुदावेल्लिताग्राभिरुत्कानिति समन्ततः ॥ ७४ ॥
शृङ्गोपात्तेति । शृङ्गेषु शिखरेषु उपात्ता आरोपिता याः पताकास्ताभिः । कीदृशीभिः, महता वायुना आवेल्लितो लुलितोऽग्रभागो यासां ताभिः पताकाभिः कृत्वा समन्ततश्चतुविग्भ्य उत्कान् उत्कण्ठितान्, अङ्गिनः पुरुषान्, स्फुटम् आह्वयत् आमन्त्रयदिति । उत्प्रेक्षालङ्कारः ॥ ७४ ॥
मुकुरादिसमाधारं मौक्तिकादिसमन्वितम् । नवविद्रुमभूयिष्ठमुद्यानमिव
मञ्जुलम् ।। ७५ ।। मुकुरादीति । यन्मण्डपम् उद्यानमिव मजुलं मनोहरमस्ति यतो मुकुरो दर्पणः, पक्षे रलयोरभेदात् मुकुलं कुड्मलमादिर्येषाम्, आदर्शानां कुसुमकलिकानां वाऽऽधारभूतम् । किञ्च मौक्तिकं मुक्ताफलं, पक्षे कुसुमविशेष आदिर्येषां तेः समन्वितं माणिक्यादिरत्नंः जाति- मालती स्थलपद्मादिपुष्पैश्च युक्तम् । नवैविद्रमैः प्रवालेः पल्लवेर्वा भूयिष्ठं व्याप्तप्रायं मण्डपमुद्यानमिव सुन्दरमस्ति । श्लिष्टोपमा ॥ ७५ ॥
अर्थ : किसी सुन्दर भौंहोंवाली कामिनीका कामचेष्टा ( विवाह- कर्म ) को लक्ष्यकर चार मुख ( द्वारों ) वाला वह मण्डप पृथ्वीपर ब्रह्मदेवकी तरह प्रख्यात हो गया ।। ७३ ।।
अन्वय : यत् मरुदावेल्लिताग्राभिः शृङ्गोपात्तपताकाभिः उत्कान् अङ्गिनः समन्ततः स्फुटं आह्वयत् भाति ।
अर्थ : वह स्वयंवर मंडप अपने शिखरोंपर लगी पताकाओं द्वारा, जिनके छोर हवासे हिल रहे हैं, अभिलाषी लोगोंको चारों ओरसे बुला रहा है ॥ ७४ ॥ अन्वय : तत् मुकुरादिसमाधारं मौक्तिकादिसमन्वितं नवविद्रुमभूयिष्ठम् उद्यानम् इव मञ्जुलम् ।
अर्थ : वह मण्डप किसी बगोचेकी तरह परम सुन्दर है । कारण जैसे कोई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org