________________
जयोदय-महाकाव्यम्
[६९-७१ समायात आगतवान् सन् कौतुकं मनोरञ्जनं कस्मान कृतवान् उत्पादितवानेव, यं दृष्ट्वा लोकसमूहः कौतुकवानेवाभववित्यर्थः । यमकालङ्कारः ॥ ६८॥
तस्या मानसपक्षी भवेद्भवेऽस्मिन्नरेश सुरसायाः । कस्य करक्रीडनकं निश्चेतुमितीहमानः सः ।। ६९ ॥ भूपतेरीप्सितं सर्व प्रक्रमते यथोचितम् ।
देवराडेव बान्धव्यात् सहभावो हि बन्धुता ।। ७० ।। तस्या इति । तस्याः सुरसायाः शोभनो रसः शृङ्गारो यस्याः सा तस्याः, यदा सुजलायाः। मानसं चित्तमेव पक्षी, यद्वा मानसपक्षी हंसः। हे नरेश, अस्मिन् भवे जन्मनि कस्य अपरिचितनामधेयस्य जनस्य करक्रीडनकं हस्तविनोदसाधनं भवेदिति निश्चेतुमेव ईहमान इच्छन् स देवराड् बान्धव्याद् बन्धुभावादेव न त्वपरकारणाद् भूपतेः काशीनरेशस्य सर्वमपि ईप्सितं यथोचितं प्रक्रमते । यतः सहभावो हि सहकारितैव बन्धुताऽस्ति । अर्थान्तरन्यासः ॥ ६९-७० ॥
देवांशे स्फुरदेव देवदिगभिद्वारं प्लवालम्बने स्वश्रीशानदिशो नरेश्वरविशो वै भाविशोभावने । तेनैवोपपुरे सुरेण रचितं सम्यक् सभामण्डप
दीव्ये वास्तुनि वास्तुनीतिनिपुणे श्रीसर्वतोभद्रकम् ॥ ७१ ॥ सहित स्वर्गसे आया है। अतः उसने पृथ्वीपर आकर आश्चर्य कैसे उत्पन्न नहीं कर दिया ? अपितु कर ही दिया ॥ ६८ ॥ ____ अन्वय : ( हे नरेश, ) अस्मिन् भवे तस्याः सुरसायाः मानसपक्षी कस्य करकोडनकं स्यात् इति निश्चेतुम् ईहमानः सः देवराट् एव भूपतेः सर्वम् ईप्सितं यथोचितं बान्धव्यात् प्रक्रमते । हि सहभावः बन्धुता ( भवति )। ___ अर्थ : आखिर इस जन्ममें सुलोचनाका मनोरूपी हंस-पक्षी किसके हाथका खिलौना होगा? इसके निश्चयकी कामनासे वह स्वर्गसे आया हुआ बड़ा भाईरूप देव हो राजाके सभी मनचाहे कार्योंको यथोचित पूरा कर रहा है । ठीक ही है, साथ देना ही बन्धुता होती है ॥ ६९-७० ।। ___अन्वय : तेन सुरेण नरेश्वरविश: वै भाविशोभावने स्वश्रीशानदिशः प्लवालम्बने उपपुरे दिव्ये वास्तुनीतिनिपुणे वास्तुनि देवांशे स्फुरत् एव देवदिगभिद्वारं श्रीसर्वतोभद्रकं सम्यक् सभामण्डपं रचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org