________________
६०-६१ ]
तृतीयः सर्गः
श्रोणी महती सैव मोदकौ संकुचरूपौ त्रिवलिर्जव लेविका कपोलौ घृतवरभूपौ । अधरलता रसगुन्गुलेति परिणामसुरम्या स्मितपयसा मधुरेण रसवतीयं बहुगम्या || ६० ॥ ग्राहकान् समाह्वयति सैष कन्दर्पकान्दविक इमकां संक्रीणातु सुकृतवित्ती नृपनाविक । सम्पन्ना गुणवती व्यञ्जनैरखिलैः पूर्णा दर्शनेन तनुभृतां सङ्कलितमूर्धनिघूर्णा ।। ६१ ॥
श्रोणीति । श्रोणी जघनस्य जगती सा महती बृहत्परिणाहा । महती बृहतीति नाम मिष्टान्नविशेषश्च । संकुचरूपौ शोभनौ कुचावेव रूपे ययोस्तो संकुचरूपों, तथा च संकुचति सङ्कोचसञ्चति रूपं ययोस्तौ, मोदको लड्डुको । त्रिवलिर्नाम उदराधः स्थितं रेखात्रयं, सा जवलेविका नाम वर्तुलभङ्गविभङ्गाकारो मिष्टान्नभेदः । कपोलौ गण्डमण्डलो तो, घृतेन कान्त्या वा वरौ श्रेष्ठौ भूस्थानं पातो रक्षत इति घृतवरभूपौ, घृतवराभिधो व्यञ्जनविशेषौ । अवरलता ओष्ठततिः सा रसगुलगुला नाम खाद्यं सरसत्वादेवं कृत्वा स्मितरूपेण पयसा दुग्धेन तेन मधुरेण हृदयग्राह्येण परिणामतः स्वभावेनैव सुरम्या रमणीयाऽनुभवनीया रसवती शृङ्गाररसयुक्ता भोज्यसामग्रीयुक्ता वा, या च बहुगम्या, अनेकजनापेक्षिता । तस्मात् हे नृपनाविक, हे राजकर्णधार, सैष कन्दर्प कान्वविकः कामापूपिकः, इयमखिले व्यंजनेरङ्गः
"
अन्वय : अस्या: ) श्रोणी महती । संकुचरूपो मोदकी । त्रिवली जललेविका । कपोलो घृतवरभूपौ । अधरलता रसगुलगुला इति । अतः परिणामसुरम्या मधुरेण स्मितपयसा रसवती इयं बहुगम्या ( अस्ति ) । अतः हे नृपनाविक ! सः एषः कन्दर्पकान्दविकः समाह्वयति किल ( यत् ) यः सुकृतवित्ती सः इमकां संक्रीणातु । इयं दर्शनेन तनुभृतां सङ्कलित मूर्धनिघूर्णा अखिलैः व्यञ्जनं सम्पन्ना गुणवती ( अस्ति ) |
१६३
अर्थ : यह सुलोचना स्वभावतः रमणीय, अनुभवनीय एवं शृङ्गार रस से सराबोर होनेसे अनेक जनोंद्वारा अभिलषणीय है । इसकी श्रोणी ( नितम्बका अग्रभाग ) तो महती है, उभरी हुई है और कुचयुगल दृढ एवं उत्तुङ्ग है । त्रिवली आँटेवाली है और दोनों कपोल परम कान्तिके धारक हैं। इसकी अधरलता ( अधर, होंठ ) सरस और अत्यन्त मृदुल हैं और यह हास्यरूपी दूधको धारण करती है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org