________________
१६०
जयोदय-महाकाव्यम्
[५४-५५
पुष्पाभमिति । यस्या कुमार्या हसितं हास्यं कुसुमतुल्यमस्ति परितः प्रसत्तिकृत्-उज्ज्वलञ्चेत्यर्थः । यस्या भ्रुवोर्युगं चापसप्निभं धनुराकारं वर्तते । एतस्यास्तनुर्वेहयष्टिः पुष्पचापस्य कामदेवस्य पताकिनी सेनारूपा दृश्यते । यद्वा पुष्पचापस्य पताका ध्वजा अस्याः सा पुष्पचापपताकिनी कामध्वजवती दृश्यते । मनोहरां तस्यास्तनुमवलोक्य रसिकजनमनांसि मोमुह्यन्ते इति भावः ॥ ५३॥
दृष्टिः सृष्टिरपूर्वैवाकृष्टिविश्वस्य चेतसाम् । __ इतीवैनोमयत्वेन कज्जलैरपि लाञ्छिता ॥ ५४ ॥ दृष्टिरिति । अस्याः कन्याया दृष्टिक तु विश्वस्य लोकसमूहस्य चेतसा हृदयानामासमन्तात् आकृष्टिराकर्षणरूपा अपूर्वैव सृष्टिवर्तते । यद्वा पूर्वाकारपूर्विका सृष्टिरस्य संहारकारकस्य महादेवस्यैव सृष्टिवर्तते । अत एव एनोमयत्वेन पापात्मकत्वेन हिंसाहेतुत्वाद् या कज्जलेरअनः अथ कलङ्करपि लाञ्छितास्तीति शोभायं घ्रियमाणं कज्जलं कलङ्कत्वेन कथ्यते, इतीवशब्दार्थः । उत्प्रेक्षालङ्कारः ॥ ५४ ॥
श्रेणीति कालबालानां वेणी चेणीदृशो भृशम् ।
वक्ष्यते वीक्षमाणेभ्यः पन्नगीव विपन्नगी ॥ ५५ ॥ श्रेणीति । एण्या मृग्यावृशाविव दशौ यस्यास्तस्या वेणी केशततिः कालानां श्यामलानां बालानां श्रेणी पङितरस्ति । तस्याः केशा अतिशयेन श्यामा इत्यर्थः । अथवा, कालस्य बाला इव बालास्ते कालबालास्तेषां श्रेणी पडिक्तरस्ति सर्पशावकसन्ततिः,या भृशं
अर्थ : इस कन्याका हास्य पुष्पकी तरह प्रसन्नता एवं उज्ज्वलताकारक है। इसको दोनों भौंहे । कामदेव के ) धनुषाकार बाँकी हैं। इसकी देहयष्टि कामदेवको सेना अथवा पताकाको तरह है ॥ ५३॥
अन्वय : ( अस्याः ) विश्वस्य चेतसाम् आकृष्टिः सृष्टिः अपूर्वा एव, इति इव या एनोमयत्वेन, कज्जलः अपि लाञ्छिता ( अस्ति )।
अर्थ : सुलोचनाकी विश्वभरके चित्तोंको आकृष्ट करनेवाली दृष्टि ( ब्रह्मदेव ) की अपूर्व सृष्टि है। मानो इसीलिए ( इसे नजर न लगे इस हेतु) यह पापको तरह काले काजलसे चिह्नित है, काजल मानो डिठवन लगाया गया है ।। ५४॥
अन्वय : एणीदृशः वेणी कालबालानां श्रेणी इति । ( या ) भृशं वीक्षमाणेभ्यः विपन्नगी पन्नगी इव ( अस्माभिः ) वक्ष्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org