________________
१५४ जयोदय-महाकाव्यम्
[ ४३-४४ उत्क्रान्तवतीति । एषा बाला, चञ्चले हावभावपरिपूर्णे लोचने यस्या एवम्भूता कौमारं कुमारभावमुत्क्रान्तवती लवितवती, नवयौवनाऽभवदित्यर्थः । किञ्च को पृथिव्यां मारं कामदेवमुत्क्रान्तवती भत्सितवती, तथापि पुनर्मारस्त्वेनां तिरस्कीमपि न बाधते स्म, न मनागप्यपीडयत्, कुतः स्नेहादिव प्रेमभावाविव । प्रेमीजनोऽपि निरादरमुपेक्षते । यौवनवती सत्यपि निर्विकारचेष्टास्तीति । स्नेहादिवेत्यत्र इवशब्दः स्वाभाविकस्यापि कौमारोल्लङ्घनादेः प्रकारान्तरोत्प्रेक्षार्थकः । श्लेषगर्भोत्प्रेक्षालङ्कारः ॥ ४२ ॥
सा तनुस्तानि चाङ्गानि किन्त्वभूद्रामणीयकम् ।
यौवनेनाद्भुतं तस्याः स्यात्कारेण यथा गिरः ॥ ४३ ॥ सा तनुरिति । बालाया यौवनारम्भेऽधुना हे भूपाल, यद्यपि सा पूर्वोदितैव तनुः शरीरं तानि पूर्वसम्भूतान्येवाङ्गानि, किन्तु यौवनेन कृत्वा पुनस्या अद्भुतमभूतपूर्वमेव रामणीयकं सुन्दरत्वमभूत् । यथा गिरो वाण्या वाच्योऽर्थः स एक एव, पुनरपि स्यात्कारेण अनेकान्तोद्योतकेन कृत्वा सा रमणीयतमा भवति, तथाऽसावपि यौवनेन रमणीयतमा जातेत्यर्थः । दृष्टान्तालङ्कारः ॥ ४३ ॥
सुकृतैकपयोराशेराशेव सुरसा तया ।
पमोऽपि चेज्जितः पद्धयां पल्लवे पत्त्रता कुतः ।। ४४ ॥ सुकृतेति । हे राजन्, सा कुमारी सुकृतं पुण्यमेवैकमद्वितीयं पयो जलं तस्य राशिः समुद्रस्तस्याशेव वेलेवाऽस्ति । यतः सुरसा रसपरिपूर्णा वर्तते तया । कुमार्याः पद्भ्यां
अर्थ : हाव-भावभरे चञ्चल नेत्रोंवाली यह बाला कौमार-अवस्था पार कर चुकी है, पृथ्वीपर कामदेवको भी तिरस्कृत कर रही है। फिर भी मानो स्वाभाविक स्नेहके वश कामदेव उसे जरा भी कष्ट नहीं दे रहा है । अर्थात् युवावस्थामें भी वह निर्विकार चेष्टावाली है ॥ ४२ ॥
अन्वय : तस्याः सा तनुः तानि च अङ्गानि, किन्तु यौवनेन अद्भुतं रामणीयकं अभूत् यथा स्यात्-कारेण गिरः ।
अर्थ : यद्यपि उसका शरीर वही है जो कि बचपनमें था और वे ही अंगप्रत्यंग हैं। फिर भी युवावस्थाके कारण उनमें अनोखा सौन्दर्य आ गया है, जैसे कि स्यात्कार ( स्याद्वाद ) से वाणीमें विचित्रता आ जाती है ॥४३॥
अन्वय : सा सुकृतकपयोराशेः आशा इव सुरसा ( अस्ति )। तया पद्भ्यां पनः अपि जितः चेत् पल्लवे पत्त्रता कुतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org