________________
४०-४२]
तृतीयः सर्गः इक्षुयष्टिरिवैषाऽस्ति प्रतिपर्वरसोदया।
अङ्गान्यनगरम्याणि क्वास्या यान्तूपमांततः॥४०॥ इक्षुयष्टिरिति । एषा बाला सुलोचना, इक्षुयष्टिरिव पौण्डविटपिकेव, यस्मात्, पति अवयसन्धिप्रन्थिा , पर्व पर्व इति प्रतिपर्व रसस्य शृङ्गारस्य मधुरस्योदय उत्पत्तिर्यस्यां सा। ततः सरसावयवत्वादेव अस्या बालाया अङ्गानि अनङ्गाय कामायातिरम्याणि मनोहराणि । यद्वा, अङ्गमुपायस्ततोऽनङ्गरम्याणि निरुपायरमणीयानि सहजसुन्दराणि, ततस्तानि। किलोपमा क्व यान्तु, न क्वापीत्यर्थः। सुन्दरं तुल्यस्वभावेन सुन्दरेणोपमीयते । अस्या अङ्गानि तु सुन्दरतमानि, अतः केनापि प्रतिमानं न लभन्त इति भावः । उपमाश्लेषः॥४०॥
अथासौ चन्द्रलेखेव जगदाह्लादकारिणी।
नित्यनूत्नां श्रियं भाति विभ्राणा स्मरसारिणी ॥ ४१ ॥ अथेति । अथ च वृद्धमार्गमनुसृत्य वर्ण्यते । अथासौ बाला नित्यनूत्नां प्रतिदिनं नवां नवां श्रियं बिभ्राणा दधाना सती जगतामाह्नावकारिणी प्रसत्तिविधायिनी स्मरस्य कामस्य सारिणी विस्तारिणी चन्द्रलेखेव भाति राजते। द्रष्टणां दर्शनरुचिमुत्पादयतीत्यर्थः । उपमालङ्कारः॥४१॥
उत्क्रान्तवती कौमारमेषा चञ्चललोचना । स्नेहादिव तथाप्येनां नैव मारः स बाधते ॥ ४२ ॥
अर्थ : वह बाला साड़ीकी तरह उत्तम गुणों ( सूत्रों ) से युक्त, सौन्दर्यरूप पुष्पोंकी लता और कामदेवकी बन्धन-रज्जुकी तरह शोभित होती है ।। ३९ ॥ ___ अन्वय : एषा इक्षुयष्टिः इव प्रतिपर्वरसोदया अस्ति । ( अस्याः ) अनङ्गरम्याणि अङ्गानि क्व उपमां यान्तु । ___ अर्थ : वह सुलोचना प्रतिदिन उत्तरोत्तर सरसता सरसाये रहती है, इसीलिए ईखको यष्टिके समान पोर-पोरपर रसभरी है। कामदेवके लिए अत्यन्त रमणीय उसके अङ्गोंका सादृश्य कहाँ मिल सकता है ? ॥ ४०॥
अन्वय : अथ असो जगदाह्लादकारिणी नित्यनूत्नां श्रियं बिभ्राणा स्मरसारिणी चन्द्रलेखा इव भाति ।
अर्थ : वह जगत्को प्रसन्न करनेवाली एवं नित्य नवीन शोभा धारण करनेवाली कामदेवको प्रकट करनेवाली चन्द्रलेखाकी तरह है ।। ४१ ॥
अन्वय : एषा चञ्चललोचना कौमारम् उत्क्रान्तवती, तथापि एनां स्नेहात् मारः न एव बाषते स्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org