SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५२ जयोदय-महाकाव्यम् [३९ तस्येति । विचक्षणेति युग्ममिदम् । हे विचक्षणेक्षण, विचक्षणे मनोहरे ईक्षणे नेत्र यस्य स तत्सम्बोधने हे सुन्दरनेत्र ! राज्ञः श्रीधरस्यैका तनया पुत्री सुप्रभाराज्याः कुलितो जाता, को पृथिव्यां मुदाश्रया प्रसन्नताधारा सुरोचनेति यथार्थनाम्नी राजते । कोशी ? चन्द्रिकेव ज्योत्स्नेव । चन्द्रिकापि भूमौ प्रसादकारिणी रुचिरा भवति । किञ्च कुमुदानां समूहः कौमुदं कैरवसमूहस्तस्याश्रया विकासकारिणी भवति । एतद्गतमुक्तकन्याविषयक वृत्तमक्षुण्णमभिनवं क्षणवमानन्दप्रवं मतम् । अतः क्षणं मुहूर्तमाध्यानादवधानपूर्वकं कर्णयोरलङ्करणं भूषणं कुरु रुचिपूर्वकमाकर्णयेत्यर्थः । अनुप्रासोपमालङ्कारौ ॥ ३७-३८॥ स्मरस्य वागुरा बाला लावण्यसुमनोलता । शाटीव सुभगा भाति गुणैः संगुणिता शुभैः ॥ ३९ ॥ स्मरस्येति । या बाला शुभैः प्रशस्तैर्गुणः सौकुमार्यादिभिः संगुणिता युक्ता, लावण्यं सौन्दर्य, तदेव सुमनसः पुष्पाणि तेषां लता वल्लीरूपा, परम्पराधिकारिणी वा, शमानन्दमटतीति शाटीव शर्मसम्पन्नेत्यर्थः । सुभगा सुन्दरी सौभाग्यशालिनी वा तस्मात् स्मरस्य कामदेवस्य वागुरा बन्धनबध्रीव भाति शोभते । वागुरापि शुभेदृढः गुणैः रज्जुभिः संगुणिता निमिता, अवाराऽनिवार्या शं हिंसामटतीति शाटी वषकों, लावण्यस्य लवणभावस्य सुमनोलता समनस्कता या सा, वसु श्यामं भगं ज्ञानं यत्र यया वा सा, वसुभगा मलिनज्ञानकर्तीति । तथा सा शाटीव भाति । स्त्रीणामाभरणवस्त्रं नाम शाटी, सापि शुभैरभङ्गर्गुणः कार्पासतन्तुभिः संगुणिता उत्पादिता, सा चाऽबाला अलध्वी सुवीर्घा । यद्वा आवारा आवरणक/ सुभगा सुन्दराकारा । अथवा वसूनां रत्नानां भगं ज्ञानमवलोकनं यस्यां सा, मध्ये मध्ये रत्नैरङ्कितेत्यर्थः । लावण्यसुमनसां कृत्रिमाणां शोभाकारिपुष्पाणां लता परम्परा यस्यां सा । स्मरस्य स्मरणस्य वाऽगुरखण्डो ला समागमो यस्याः साऽगुला चिरस्मृतिदात्री कामोत्पत्तिकर्तीति, वाऽव्ययं विकल्पोत्पत्तौ । 'गौः पुमान् वृषभे स्वर्गे खण्डववाहिमांशुषु । ला तु दाने किलाश्लेष' इति कोषात् व्याख्या कार्या। रूपकभितश्लेषोपमालङ्कारः ॥३९॥ अर्थ : हे चतुर-सुन्दर नेत्रवाले राजन् ! उस राजाके एक कन्या, जो महारानी सुप्रभाकी कुक्षिसे उत्पन्न और चन्द्रिकाकी तरह पृथ्वीपर प्रसन्नताकी धारा बहाने वाली है, सुरोचना या सुलोचना नामसे शोभित हो रही है। इस कन्याका सारा वृत्तान्त जो मैं सुनाने जा रहा हूँ, वह आनन्द देनेवाला है। इसलिए क्षणभर ध्यानसे सुनो ।। ३७-३८ ॥ ____ अन्वय : ( एषा ) बाला शुभैः गुणैः संगुणिता सुभगा शाटो इव लावण्यसुमनोलता स्मरस्य वागुरा भाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy