________________
१५० जयोदय-महाकाव्यम्
[ ३४-३५ प्रस्थितस्य कुशलं शिरस्यनु स्मोपभाति पथि पादयोस्तनुः । साम्प्रतं कुशल तेऽवलोकनादञ्चनैः कुशलतेव चामनाक ॥ ३४ ॥
प्रस्थितस्येति । हे कुशल, चतुरनर, प्रस्थितस्य प्रस्थानमितस्य गन्तुमुद्यतस्य मम कुशलं मस्तके एवोपभाति लसति शिरस्येव कुशप्रक्षेपणात् किल, कुशाल्लाति गृह्णातीत्यन्वयात् । ततो न पुनः पथि मार्गे गच्छतो मम पावयोश्चरणयोरेव कुशलं बभूष, तत्रैव कुशसद्भावात् । साम्प्रतं तु तेऽवलोकनात्तव दर्शनादञ्चनैः प्रमोदरोमाञ्चैः कृत्वा सम्पूर्णतनरेव कुशलता कुशततिरिव । यद्वा कुशलस्य भावः कुशलता क्षेमपूर्णतास्ति, तव दर्शनावहं प्रसन्नोऽस्मीति भावः । मनागिति स्वल्पार्थेऽव्ययं, न मनागित्यमनाक, परिपूर्णभावेनेत्यर्थः । उल्लेखोऽलङ्कारः ॥ ३४ ॥
विपत्त्रेऽपि करे राज्ञः पत्रमति सन्ददत् ।
अपत्रपतयाप्यासीत् स दूतो मञ्जुपत्रवाक् ॥ ३५ ॥ विपत्त्रेऽपोति । पूर्वोक्तरीत्या कुशलप्रश्नानन्तरं स दूतो विपत्रे पत्ररहितेऽपि, तथा च विपन्निवारकेऽपि राज्ञः करे भुजाग्रे पत्रं समाचाराधारं सन्दवत् सन्, स्वयं तु पत्रं पातीति पत्रयो न पत्रपोऽपत्रपस्तस्य भावस्तया युक्तोऽपि सन् पत्ररहितोऽपि भवन् म पत्रवाक् सुन्दरपत्रवाचक इति विरोधस्तस्मादपत्रपतया निर्लज्जतया सङ्कोचवजितः सन् मानि पदानि त्रायन्ते समुज्रियन्ते यस्यामेतादृशी ललिताक्षरवती वाग् यस्येत्येवमभूत् । विरोधाभासोऽलङ्कारः ॥ ३५ ॥
. अन्वय : हे कुशल प्रस्थितस्य ( मे ) कुशलं शिरसि, अनु पथि पादयोः, अधुना च ते अवलोकनात् तनुः अञ्चनैः कुशलतेव अमनाक् उपभाति स्म।
अर्थ : हे कुशल यानी चतुर नरपते ! जब मैंने प्रस्थान किया तो उस समय कुशल मेरे सिरपर रहा, मांगलिक कुश मेरे सिरपर रखे गये। बादमें जब मैं चलने लगा तो कुशल मेरे चरणोंमें था, कुशोंपर पैर रखता हुआ आया । किन्तु इस समय तो आपके अवलोकनसे रोमाञ्च हो जानेसे सारे शरीर में ही परिपूर्ण रूपमें कुशलता है ।। ३४ ॥
अन्वय : इति सः दूतः अत्र राज्ञः विपत्त्रे अपि करे पत्रं सन्ददत् अपत्रपतया अपि मजुपत्रवाक् आसीत् ।
अर्थ : इस प्रकार वह दूत आपत्तिसे त्राण करनेवाले राजाके हाथमें निःसंकोच भावसे पत्र देता हुआ मंजुल पदोंसे युक्त वाणी बोला।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International