SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ जयोदय-महाकाव्यम् [ २३ दृशेति । हे चित् हे प्रत्यक्षस्थित बुद्धिमच्छ्रोतः; यद्वा चिविति मनः, शृणु। तदा तस्मिन्नागमनसमय एव तस्मै समागताय नृपस्य दृशो दृष्टया परिचारिकयेव आसिकाऽसनमदायि दत्तं, दृष्टिप्रसादेन भूपस्तमुपावेशयदित्यर्थः। तथा शमानन्दं मुञ्चतीति शम्मुक तया शम्मुचा दन्तरुचा वशनकान्त्या स आगतजनोऽभ्यसेकि, अभिषिक्तः । तथा नृपस्य रसा रसना चास्मै गिर वाच एव खण्डमिक्षुविकारमवाद् दत्तवती। एवं कृत्वा तदातिथ्येऽतिथिसत्कारविषये नृपस्य चातुर्य प्रगल्भत्वं कथं नाभूत् अभूदेवेत्याशयः। 'सर्वस्याभ्यागतो गुरुरि'त्युक्तिमाश्रित्य स दूतोऽपि नृपवरेण तत्कालं पूजित इति ध्वनितार्थः । अतिथिसत्कारे च आसनवानस्नानाशनानि सम्पादनीयानीति शिष्टाचारः। अतो दृष्टिप्रसादनलाभपूर्वकमुपविष्टे सति दूते प्रथमत एव राजा वक्ष्यमाणमुवाच, प्राग्भाषी भवेदिति नीतेः ॥ २२॥ यशो विशिष्टं पयसोऽपि शिष्टं बिभर्ति वर्गौघमहो कनिष्टम् । तरां धराङ्के तव नामकामगवी च विद्वद्वर संवदामः ॥ २३ ।। यश इति । हे विद्वद्वर, बुद्धिमवग्रेसर, तव नामैव कामगवी कामधेनुः सास्मिन् पराया मातृस्थानीयाया अङ्क क्रोडे यशोविशिष्टं प्रख्यातमिति यावत्, तस्माच्छ तो मधुरं पयसो दुग्धादपि शिष्टं प्रशंसनीयं किमुत तोयावेरिति अपिशब्दार्थः। इष्टम् इच्छाविषयीकृतं कं वर्णोधमक्षरसमूहं बिभतितरां धारयतितरामिति वयमपरिचयापन्ना संवदामः । अत्र रूपकं छेकानुप्रासश्चालङ्कारः ॥ २३ ॥ अन्वय : हे चित् ! तदा अस्मै नृपस्य दृशा आसिका अदायि, सः ( तस्य ) शम्मुचा दन्तरुचा अभ्यसेचि । ( च ) रसा गिरः खण्डम् अदात् । ( इति तस्य ) आतिथ्यचातुर्य कस्मात् न अभूत् । अर्थः समझदार पाठको! उस समय किसी परिचारिकाकी तरह राजाको दृष्टिने उस अपरिचित अतिथिको आसन प्रदान किया और प्रसन्नतासूचक राजाकी दन्तकान्तिने उसे अभिषिक्त किया। राजाकी जिह्वाने मधुरवाणीरूपी मोठा रस पिलाया। इस प्रकार उस राजाकी आतिथ्य-कुशलता कैसे प्रकट नहीं हुई ॥ २२॥ अन्वय : बिद्वद्वर! वयं संवदामः तव नामकामगवी धराङ्के अहो! कम् इष्टं वर्णोध बितितरां ( यत् ) यशोविशिष्टं पयसः अपि शिष्टम् ।। ___ अर्थ : महाराज जयकुमारने उस आगन्तुकसे कहा : हे विद्वद्वर! हम आपसे पूछना चाहते हैं कि आपकी नामरूपी कामधेनु इस धरातलपर कोन-से आश्चर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy