SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १७-१८ ] तृतीयः सर्गः १४१ नाम आयुर्वेदशास्त्रनिर्माता आचार्यो येस्ते। नटवत्, नटा यथा किल इष्टवाचि यथेच्छवचनभाषणे चतुरा भवन्ति तथा पूर्वा छटा विचारधारा येषां ते प्राणाचार्या बभूवुः। श्लेषोपमालङ्कारः ॥ १६ ॥ चारणा गुणगणप्रचारणास्ते कुविन्दवदुदारधारणाः । स्मोद्भवत्सुपदवेमपाकया सञ्जयन्ति विलसच्छलाकया ।। १७ ॥ चारणा इति। चारणाः स्तुतिपाठफास्ते कुविन्दवत् तन्तुवायतुल्या भवन्तः सञ्जयन्ति सर्वोत्कृष्टभावेन वर्तन्ते स्म । यस्माते गुणानां शीलादीनां, पक्षे तन्तूनां गणः समूहस्तस्य प्रचारणा मुहुर्मुहुः प्रकटीकरणं, पक्षे क्रमशः प्रसारणं येषां ते । उदाराऽतिविस्तीर्णा धारणा स्मरणशक्तिः, पक्षे तानितवृत्तिर्येषां ते। उद्भवतां शोभनानां पदानां शब्दानां प्रतिष्ठानानां वा वेमपाकः ओजस्वितापरिणामो यस्यां सा, पक्षे शोभनं पदं व्यवसायो यस्य तस्यैतादृशस्य, उद्भवतः समुच्चलतः सुपवस्य वेम्नस्तन्तुवायहस्तसाधनस्य पाकः परिणामो यस्यां तया विलसन्ती चासौ शलाका तया, पक्षे लोहकोलकं नाम सा तया कृत्वा जयन्ति स्म । यत्र चारणा वंशपरम्परोद्घाटनपूर्वकं भूपतेर्यशो गायन्ति स्म । श्लेषोपमालङ्कारः ॥ १७ ॥ देशनेव दुरितापवर्तिनी भावनेव सुकृतप्रवर्तिनी । कल्पनेव सुकवेः सदर्थिनी तस्य संसदभवत् समर्थिनी ॥ १८ ॥ देशनेवेति । तस्य भूपस्य संसत् सभा समर्थिनी समर्थनकर्ती, भवता यदुक्तं तद्युक्त का आदर करते हैं, उसी प्रकार वहाँके वैद्य 'सुश्रुत-संहिता'कार सुश्रुताचार्यका आदर करते थे। जिस प्रकार दूत चर-कार्यमे तत्पर रहता है उसी प्रकार यहाँ वैद्य भी 'चरक-संहिता'कार चरकाचार्यके प्रति अनुराग रखते थे ॥ १६ ॥ अन्वय : ते चारणाः कुविन्दवत् उद्भवत्सुपदवेमपाकया विलसच्छलाकया गुणगणप्रचारणाः उदारधारणाः सञ्जयन्ति । अर्थ : वहाँके चारण ( भाट ) भी जुलाहेके समान सर्वोत्कृष्ट विराजते थे। जैसे जुलाहे समुचित लम्बाई-चौड़ाईवाले वेमा-यंत्रके साथ शलाका फैलाते हुए अपने ताने-बानेके धागोंको वस्त्ररूप देते हैं, वैसे ही चारण भी सुन्दर शब्दों या प्रतिष्ठानोंके ओजस्वी परिणामोंसे शोभनीय शलाकासे महाराजके कुलका यशःपट बुना करते हैं ॥ १७ ॥ अन्वय : तस्य संसद् देशना इव दुरितापवर्तिनी, भावना इव सुकृतप्रवर्तिनी, सुकवेः कल्पना इव सदथिनी ( एवम् ) समथिनी च अभवत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy