________________
जयोदय- महाकाव्यम्
[ १५-१६
गुप्तिभागिह च कामवत्तु नः पक्षपाति च शीतरश्मिवत्पुनः । कोऽन्वति श्रुतिरितो दृगन्तवत् साऽखिलाङ्गसुलभा सभाऽभवत् ।। १५ ।।
१४०
गुतिभागिति । इह सभायां नोऽस्माकं मध्ये गुसिरत्कोचस्तं भजतीति गुप्तिभाग् उत्कोचभागी को नु प्रश्ने, न कोऽपीत्यर्थः । क इव कामवधू यथा कामो गुप्तिभाग् गोपनभागी भवतीति व्यतिरेकदृष्टान्तः । यत्र च पक्षपाती दुरुपयोगसमर्थश्च क: ? न कोपीत्यर्थः । क इव शीतरश्मिवत्, यथा चन्द्रः पक्षे पतनशीलो भवति । शुक्लपक्षे वृद्धिमवाप्य पुनः कृष्णपक्षे क्रमशो होयते इति यावत् । श्रुति धर्मप्रतिपादकशास्त्र मत्येतीति अतिश्रुतिजनश्च क: ? न कोऽपीत्यर्थः । क इव वृगन्तवत् कटाक्षो यथा श्रुतिं श्रवणमत्येति एवं सा सभा खिलाङ्ग सुलभा सर्वाङ्गपूर्णाऽभवत् । व्यतिरेकोपमालङ्कारः ॥ १५ ॥
दूतवत्तु चरकार्यतत्पराः श्रोत्रिया इव च सुश्रुतादराः ।
यत्र ते नटवदिष्टवाग्भटाः स्मावभान्ति भिषजोऽद्भुतच्छटाः ।। १६ ।।
तवत्विति । यत्र सभायां ते भिषजो वैद्या अवभान्ति स्म, शुशुभिरे, ये धरकार्यतत्पराः चरकश्चासौ आर्यश्च तस्मिस्तत्परा अनुरागिणो द्रुतवद् भवन्ति । चरस्य कार्ये तत्पराः परायणा भवन्ति, 'चरश्चारे चलेऽपि चे 'ति प्रमाणात् । ये च सुश्रुते धन्वन्तरी आवरो विनयभावो येषां ते, श्रोत्रिया इव नित्यहोत्रिणो वैदिकब्राह्मणा इव । पक्षे सुश्रुत आयुर्वेदिककर्मकाण्डप्रतिपादकशास्त्रेऽनुरागिण आसन् । पुनरिष्टो मान्यतामितो वाग्भट
अन्वय : इह नः कामवत् तु गुप्तिभाग् । पुनः शीतरश्मिवत् पक्षपाति । ( च ) दृगन्तवत् अतिश्रुतिः को नु ? ( एवं ) सा सभा अखिलाङ्गसुलभा अभवत् ।
अर्थ : जिस प्रकार काम गुप्तांगोंका भोक्ता होता है, उस प्रकार इस सभा में हमारे बीच गुप्तिभागी अर्थात् घूस लेनेवाला कौन था ? जैसे चन्द्रमा एक पक्ष में प्रकाश करता है, वैसे ही वहाँ पक्षपाती कौन था ? इसी तरह जैसे कटाक्ष कानोंको उल्लंघन कर जाते हैं, वैसे वहाँ आगमका उल्लंघन करनेवाला कौन था ? अर्थात् कोई नहीं था । इस प्रकार वह सभा सभी अंगोंसे सुसंगत थी ॥ १५ ॥
अन्वय : यत्र अद्भुतच्छटाः भिषजाः अवभान्ति स्म । ( यतः ) तैः तु नटवत् इष्टवाग्भटाः श्रोत्रियाः इव सुश्रुतादराः च दूतवत् चरकार्यतत्पराः ( आसन् ) ।
अर्थ : वहाँ वैद्य अपूर्व छटावाले थे । क्योंकि वे नटकी तरह इष्ट-वाग्भट थे अर्थात् जैसे नट बोलने में बड़ा चतुर होता है वैसे ही ये वैद्य भी लोग 'अष्टांगहृदय' - ग्रन्थकार वाग्भटाचार्यको मानते थे । जिस प्रकार श्रोत्रिय उत्तम आगम
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org