SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ११] तृतीयः सगः १३७ पवित्रं लक्षणं स्वरूपं येषां ते च ते विभङ्गा वितर्काः 'स्यादस्ति स्यानास्ती'त्याविरूपास्तद्देशिनी तेषां प्ररूपिका । नदी च जलस्य क्षणे समये विभङ्गदेशिनी तरङ्गधारिणो भवति। सभा मलापहरणस्य प्रायश्चित्तस्य उपदेशिनी। जिनवाक, मलापहरणस्य पापनाशनस्य उपदेशिनी। नदी च मलापहरणस्य किट्टादिदोषनाशनस्य उप समीपे देशिनी, यस्यास्तटे मलापहरणं क्रियते जनैरिति भावः। सभा तीर्थसम्भवेन पथा वृद्धपरम्परायातेन मार्गेण । यद्वा उपायसञ्जातेन वर्त्मनाऽनुवेशिनी प्रवेशवती, वाण्या आप्तोपज्ञेन वर्मनाऽनुवेशिनी, नदी च तीर्थमवतारस्तत्सम्भवेन मार्गेण अनुवेशिनी गम्येत्यर्थः । पूर्वोक्त एवालङ्कारः ॥ १० ॥ सन्पदादरणकारिणीत्यलं कालमाश्रितवती मुदादरम् । मजुवृत्तविभवाधिकारिणी कामिनीव कवितानुसारिणी ॥ ११ ।। सम्पदोत । सा सभा कवितामनुसरतीति कवितानुसारिणी, कविकृतेरनुक: कामिनीवाऽभूत् । तद्यथा-सभा सम्यग् रूपेण पदेन प्रतिष्ठानेन आदरणकारिणी । यद्वा सम्पदस्य सम्यक प्रतिष्ठावतो मनुष्यस्यावरणकारिणी। कामिनी सम्पदः सम्पत्तरादरणक: । कविता च सम्यग्रूपाणां सुप्तिङन्तानां पदानां शब्दानां सङ ग्राहिणी । सभा, मुदः प्रसन्नताया आदरो यस्मिस्तं कालमाश्रितवती, योग्यसमये सम्पद्यमानेत्यर्थः। कामिनी अलङ्कारमाश्रितवती, कविता च उपमा-रूपकाधलङ्कारधारिणी । सभा मञ्जुवृत्तस्य मनोहराचरणरूपस्य आख्यानादेविभवस्याधिकारिणो । कामिनी मञ्जुलस्य सुन्दरस्य मनोमोहकस्य वृत्तस्याचरणस्य यो विभवस्तस्याधिकारिणी। कविता च मञ्जूनां निर्दोषाणां वृत्तानां छन्दसां विभवस्य आनन्दस्य अधिकारिणी भवत्येव । श्लेषोपमालङ्कारः ॥११॥ वाणी पवित्र लक्षणवाले सप्तभंगोंसे युक्त होती है, वैसे हो सभा भी नीतिमय धाराएं धारण करती थी। नदी शारीरिक मल दूर करती और जिनवाणी मानसिक मल दूर करती है, उसी प्रकार सभा भी मनुष्यके अपराधोंका संशोधन करती थी। नदी किसी तीर्थस्थानसे निकलती है और जिनवाणी तीर्थंकर भगवान्से प्रसूत होती है, उसी प्रकार सभा भी लोगोंका भला करनेका उद्देश्य लेकर संघटित थी॥ १०॥ अन्वय : ( सा सभा) कामिनो इव कवितानुसारिणी, यतः सम्पदादरकारिणी मुदादरम् अलं कालम् आश्रितवती मञ्जुवृत्तविभवाधिकारिणी ( आसीत् )। अर्थ : वह सभा कामिनीकी तरह कविताका अनुसरण कर रही थी। क्योंकि जिस प्रकार कवितामें सम्यक् शुद्ध पद होते हैं अथवा कामिनी सुन्दर पैरोंवाली होती है, उसी प्रकार सभा लोगोंके पद-प्रतिष्ठाका समीचीनं आदर करती थी। १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002756
Book TitleJayodaya Mahakavya Purvardha
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy