________________
१३२ जयोदय-महाकाव्यम्
[३-४ निर्मूलनं भवेदिति । कर्मणा कर्तव्येन पुननिर्बलानाम् उद्धृतिरुद्धारस्तस्यां परस्तत्परः सन्, शर्मणां स्वस्य परेषाञ्च कल्याणानामेकमद्वितीयम् ओकः स्थानमभूत् । अत्रापि यथासङ ख्यमलङ्कारः॥२॥ प्रातरादिपदपद्मयोर्गतः श्रीप्रजातिनिरीक्षणे न्वतः। । नक्तमात्मवनिताक्षणे रतः सर्वदैव सुखिना स सम्मतः ।। ३ ।। - प्रातरिति । पुनरपि भङ्गयन्तरेण तदेव व्याख्याति-प्रातःकाले आदिपुरुषस्य ऋषभतीर्थकरस्य पदपद्मयोः चरणकमलयोः प्रान्तं गतः, प्रातःकालस्य धर्माराधनमूलकत्वात् । अतो नु पुनः श्रीप्रजायाः चतुर्वर्णात्मिकाया जनतायाः कृतिः कर्तव्यं तस्य निरीक्षणे कः कोदृक् कार्यपरायण इत्यवलोके संलग्नः । नक्तं रात्रौ चात्मनो वनिताः स्त्रियस्तासां क्षणो विलासविभ्रमादिलक्षण उत्सवस्तस्मिन् रतो निमग्नः सन् स जयकुमारः सर्वदैव सुखिनां सम्मतोऽभूत् । उल्लेखो नामालङ्कारः ।। ३ ॥ मत्स्यरीतिरिपुरेष धीवरः सत्समागमतया कलाधरः। यः समायसमयो महेन्द्रन्नित्यमित्युचितकृच्छुभाश्रवः ॥ ४ ॥
मत्स्यरीतीति । एष जयकुमारो धीवरो बुद्धिमान् दाशो वा, मत्स्यरीतिः बलवान् अबलं प्रसतीति, तस्या रिपुः। पक्षे मत्स्यानां रीतिहलनचलनाविरूपा चेष्टा, तस्या रिपुर्जले दुष्टता दूर करने, मिटानेकी सोचता हुआ और शरीरसे निबलोंकी रक्षा, उद्धार करता हुआ अपने और दूसरोंके कल्याणका अद्वितीय निवासस्थान बन गया था ॥२॥
अन्वय : सः प्रातः आदिपदपद्मयोः गतः, अतः नु श्रीप्रजाकृतिनिरीक्षणे ( गतः ) । नक्तम् आत्मवनिताक्षणे रतः सन् सर्वदा एव सुखिनां सम्मतः ( अभूत् )। ___ अर्थ : महाराज जयकुमार प्रातःकाल तो आदिजिनेश्वर ऋषभदेवके चरणोंकी सेवा-पूजामें लगा रहता था। उसके बाद दिनमें चारों वर्णों की प्रजाके कार्योंका निरीक्षण किया करता था। रात्रिमें अपनी स्त्रियोंके साथ विलासादि उत्सवमें निमग्न रहता था। इस प्रकार वह सर्वदा सुखी जनोंमें श्रेष्ठ माना जाता था ॥ ३ ॥
अन्वय : एषः धीयरः मत्स्य रीतिरिपुः सत्समागमतया कलाधरः यः महेन्द्रवत् समायसमयः इति उचितकृत् नित्यं शुभाश्रवः अभूत् ।
अर्थ : वह राजा जयकुमार 'धोवर' यानी बुद्धिमान् था, इसलिए मत्स्यरोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org