________________
१२४
जयोदय-महाकाव्यम्
[१४७-१४९ प्रियोऽप्रियोऽथवा स्त्रीणां कश्चनापि न विद्यते ।
गावस्तृणमिवारण्येऽभिसरन्ति नवं नवम् ॥ १४७ ॥ प्रिय इति । स्त्रीणां प्रियः स्निग्धो, अप्रियोऽस्निग्धो वा कश्चनापि पुरुषो न विद्यते । गावो यथाऽरण्ये नवं नवं तृणमभिसरन्ति तथा स्त्रियोऽपि नवं पुरुषमिच्छन्ति ।। १४७ ।।
न सौन्दर्यं न चौदायें श्रद्धा स्त्रीणां चलात्मनाम् । रमन्ते रमणं मुक्त्वा कुब्जान्धजडवामनैः ।। १४८ ।। न सौन्दर्य इति । चलश्चपल आत्मा यासा तासां स्त्रीणां सौन्दर्ये रामणीयके, औदार्य, उदारभावे श्रद्धा न भवतीति शेषः। ताः स्वकीयं रमणं कान्तं मुक्त्वा कुब्जान्धजडवामनैः सह रमन्ते ॥ १४८ ।।
अनल्पतूलतल्पस्थं स्त्रियस्त्यक्त्वाऽनुकूलकम् । रमन्ते प्राङ्गणेऽन्येनाहो विचित्राऽभिसन्धिता ॥ १४९ ॥
अनल्पेति । स्त्रियोऽनल्पं तूलं यस्मिन् तादृशं यत्तल्पं शयनं तत्र स्थितमनुकूलकं स्वाभीष्टं पति त्यक्त्वा अन्येन इतरेण पुरुषेण सह प्राङ्गणेऽनाच्छादिते स्थलेऽपि रमन्ते, इयं विचित्राऽभिसन्धिता वचकतेत्यहो आश्चर्यम् ॥ १४९ ॥ स्त्रीपक्षमें तुलाकोटिका अर्थ है नूपुर, उसका धारण है प्रयोजन जिमका, यह अर्थ है ॥ १४६॥
अन्वय : स्त्रीणां प्रियः अथवा अप्रियः अपि कश्चन न विद्यते । ( ताः ) अरण्ये गावः तृणम् इव नवं नवम् अभिसरन्ति ।
अर्थ : स्त्रियोंके लिए न तो कोई प्रिय है और न कोई अप्रिय । वे वनोंमें नयी-नयो घास चरनेवाली गायोंकी तरह नवीन-नवीन पुरुषोंकी ओर अभिसरण किया करती हैं ।। १४७॥
अन्वय : चलात्मनां स्त्रीणां न सौन्दये श्रद्धा, न च औदार्ये । ( ताः ) रमणं मुक्त्वा कुब्जान्धजडवामनः सह रमन्ते । ____ अर्थ : चंचल चित्तवाली स्त्रियोंकी न तो सुन्दरतापर श्रद्धा रहती है और न उदारतापर। वे तो अपने मनोहर पतिको भी छोड़कर कुबड़े, अन्धे, मूर्ख और बौने पुरुषोंके साथ रमण करती हैं ॥ १४८ ॥
अन्वय : अहो स्त्रियः अनल्पतूलतल्पस्थम् अनुकूलकं त्यक्त्वा । अन्येन सह प्राङ्गणे एव रमन्ते इति एषा विचित्रा अभिसन्धिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org