________________
१४५-१४६ ] द्वितीयः सर्गः
१२३ दोषा इति । मृषानयोऽलीकभाषणप्रमुखा दोषा योषाया आस्यतः स्त्रीमुखात् सद्यः शीघ्र प्रभवन्ति जायन्ते । अते वृद्धः कविभिर्यदुक्तं स्त्रीणां मुखं दोषाकरात् चन्द्रादपि वरं तदिदं युक्तमेव । यतस्तत् किल बोषाणामृषावादादीनामाकरः खनिरुत्पत्तिस्थानम् । अतस्तस्मादपि वरमिति शब्दच्छलमाश्रित्योक्तिः ॥ १४४ ॥
मृषासाहसमूर्खत्वलौल्यकौटिन्यकादिकान् ।
सर्वानवगुणान्लातीत्यबला प्रणिगद्यते ।। १४५ ॥ मृषेति । यतः स्त्री, मृषा मिथ्योक्तिः, साहसमविचारकारित्वम्, मूर्खत्वं जडता, लौल्यं चापल्यं, कौटिल्यकं वक्रत्वमादिर्येषां ते तान् सर्वान् अवगुणान् लाति गृह्णातीत्यबला प्रणिगद्यते ॥ १४५॥
अन्तर्विषमया नार्यो बहिरेव मनोहराः ।
परं गुञ्जा इवाभान्ति तुलाकोटिप्रयोजनाः ॥ १४६ ॥ अन्तरिति । नार्यः स्त्रियोऽन्तरभ्यन्तरे विषमयाः केवलं बहिरेव मनोहरा यथा गुजाः, ताः केवलं तुलाकोटिप्रयोजनास्तुला तराजूरिति भाषायां तस्याः कोटिरग्रभाग एव प्रयोजनं यासा ताः स्वर्णादिप्रमाणार्थ तुलायां स्थाप्यन्ते । स्त्रीपले, तुलाकोटिनू पुरं तद्धारणं प्रयोजनं यास ताः ॥ १४६ ॥
अर्थ : स्त्रीके मुखसे झूठ बोलना आदि दोष तत्काल हुआ करते हैं। इसीलिए प्राचीन कवियोंने ठीक ही कहा है कि स्त्रीका मुख दोषाकर ( चन्द्रमा ) से भी श्रेष्ठ है ।। १४४ ॥
अन्वय : इयं मृषा साहसमूर्खत्वलौल्यकौटिल्यकादिकान् सर्वान् अवगुणान् लाति इति अबला प्रणिगद्यते। __ अर्थ : स्त्री झूठ बोलना, दुस्साहस करना, मूर्खता, चंचलता और कुटिलता आदि जितने भी अवगुण हैं, उन सभीको ग्रहण किया करती है। इसीलिए इसे 'अबला' कहा है ॥ १४५ ॥
__ अन्वय : नार्यः बहिः एव मनोहराः, किन्तु अन्तः विषमयाः गुञ्जा इव परं तुलाकोटिप्रयोजनाः आभान्ति।
अर्थ : स्त्रियाँ बाहरसे ही मनोहर दिखाई देती हैं। किन्तु भीतरसे तो विषसे ही भरी होती हैं । वे गुंजाकी तरह यानी तौलनेके काम आती हैं। यहाँ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org