________________
१२२ जयोदय-महाकाव्यम्
[१४३-१४४ स चेति। विमूढं मनो यस्य स जडान्तःकरणः निजकामिन्याः कथनमात्रेण विश्वसितमन्तरं चित्तं यस्य सः जातविश्वासः सर्पचरोऽमरस्तमनुमन्तुम् अपराधमवाप्य प्राप्य परापरं पूर्वापरमविचार्य जयकुमारं प्रति क्रोधं कृत्वा चचाल ॥ १४२॥
अभूद् दारासारेष्वखिलमपि वृत्तं त्वनुवदन् समालीनः सम्यक् सपदि जनतानन्दजनकः । तदेतच्छ्रुत्वाऽसौ विघटितमनोमोहमचिरात्
सुरश्चिन्तां चक्रे मनसि कुलटाया कुटिलताम् ॥ १४३ ॥ अभूदिति । इतः सपदि शीघ्रं जनताया लोकसमूहस्य आनन्दं जगयतीत्यानन्दजनकः सम्मदकरः स जयकुमारः, दाराणां स्त्रीणामासारे समूहे समासीन उपविष्टोऽखिलमपि वृत्तमुदन्तं सम्यगनुवदन्नभूत् । तदेतच्छु त्वाऽसौ सुरोचिरात् तत्कालमेव विघटितः प्रणष्टो मनसो मोहोऽज्ञानान्धकारो यस्मिन् यथा स्यात्तथा मनसि कुलटायाः स्वैरिण्याः कुटिलतां वक्रतां चिन्ताञ्चक्रेचिन्तयत् ॥ १४३ ॥
दोषा योषास्यतः सद्यः प्रभवन्ति मृषादयः । युक्त मुक्तमिदं वृद्धवरं दोषाकरादपि ॥ १४४ ॥
अर्थ : वह मूढबुद्धि अपनी देवीके कहने मात्रपर ही विश्वासकर आगे-पीछेका कुछ भी विचार न करते हुए क्रुद्ध हो जयकुमारपर आक्रमण करनेके लिए चल पड़ा ॥ १४२॥ - अन्वय : सपदि जनतानन्दजनकः दारासारेषु सम्यक् समासीनः सः अखिलम् अपि वृत्तं तु अनुवदन् अभूत् । तदेतत् श्रुत्वा असो सुरः अचिरात् विघटितमनोमोहं मनसि कुलटायाः कुटिलतां चिन्तां चक्रे ।
अर्थ : सारी जनताको शीघ्र आनन्द देनेवाला, अपनी रानियोंके बीच प्रसनतासे बैठा जयकुमार उपयुक्त सही-सही वृत्तान्त जैसे-का-तैसा उन्हें सुना रहा था। उस वृत्तान्तको सुनकर उस देवरूपधारी सर्पका सारा अज्ञान शीघ्र दूर हो गया और वह अपने मनमें अपनी कुलटा स्त्रोको कुटिलतापर सोच-विचार करने लगा ॥ १४३ ॥
अन्वय : योषास्यतः मृषादयः दोषाः सद्यः प्रभवन्ति । अतः वृद्धः इदं युक्तम् उक्तं ( यत् एतत् ) दोषाकरात् अपि वरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org