________________
१३६-१३७ ]
द्वितीय: सर्गः
११९
प्राणादपीति । जगतां प्राणिनां प्राणादपोष्टमधिकं श्रेष्ठं वित्तं भवति । तु पादपूरणे । तद्धर्तुञ्चौरस्य चित्तं स्वयमेव व्यपायि विशेषेण अपाययुक्तं भवति । तदाशु शीघ्र मतु स्वनिर्मितगर्तमिव चौयं कर्तुमत्र क इच्छेत् किल, न कोऽपीच्छेदित्याशयः ॥ १३५ ।।
आर्यकार्यमपवर्गवम॑नः कारणं त्विदमुदारदर्शन । स्वैरिता पुनरनार्यलक्षणं नो यदर्थमिह किञ्च शिक्षणम् ॥ १३६ ॥
आर्यकार्यमिति । हे उदारदर्शन हे प्रशस्तज्ञानिन्, इदमपवर्गवत्मनो मोक्षमार्गस्य कारणं हेतुरूपमार्यञ्च तत्कायं श्रेष्ठकर्म, मया वर्णितमिति शेषः । स्वैरिणो भावः स्वैरिता स्वेच्छाचारः पुनरनार्यस्य नीचस्य लक्षणमस्ति, यदर्थमिह किमपि शिक्षणं नो नास्तीत्यर्थः ॥ १३६ ॥ नयवत्र्मेदं निर्णय वेदं प्राप्तुमखेदं स्पष्टनिवेदम् । सुमतिसुधादं विगतविषादं शमितविवादं जयतु सुनादम् ॥ १३७ ॥
नयवर्मेति । इदं नयवर्त्म नीतिमार्गो वर्तते, यदखेदं खेदवजितं निर्णयवेदं प्रमाणभूतज्ञानं प्राप्तुं लब्धं स्पष्टनिवेदमसंदिग्धकथनकरम् । सुमतिरेव सुधाऽमृतं तां ददातीति तत् विगतविषादं विषादरहितम्, शमितविवादं विसंवादरहितम् सुनादं शोभनध्वनियुक्त जयतु ॥ १३७ ॥
अन्वय : वित्तं तु जगतां प्राणाद् अपि इष्टम् । तत् हर्तुः चित्तं स्वयम् एव व्यपायि । तत् आशु मतुं स्वनिर्मितं गतम् इव चौर्य कर्तुं कः अत्र इच्छेत् किल । ___अर्थ : धन तो संसारभरके प्राणियोंको प्राणोंसे भी अधिक प्रिय होता है। उसका अपहरण करनेवालेका चित्त स्वयं ही भयभीत हुआ करता है। अपनी शीघ्र मृत्युके लिए अपने हाथों खोदे गये गड्ढे के समान इस चौर्य-कर्मको कौन समझदार करना चाहेगा?॥ १३५ ॥ ____ अन्वय : हे उदारदर्शन अपवर्गवर्त्मनः कारणम् इदम् आर्यकार्य ( मया वणितम् ) । स्वैरिता पुनः अनार्यलक्षणं यदर्थम् इह नो किं च शिक्षणम् ।
अर्थ : हे प्रशस्तज्ञानी! परम्परया अपवर्ग या मोक्षपथका कारण, आर्यजनोंद्वारा अनुष्ठीयमान यह श्रेष्ठ कर्म मैंने तुम्हें बताया। इसके अतिरिक्त जो अपनी मनमानी करता है, वह तो अनार्य-पुरुषका लक्षण है। उसके लिए यहाँ कुछ भी शिक्षणीय नहीं है ।। १३६ ॥
अन्वय : इदं नयवर्त्म ( यत् ) अखेदं निर्णयवेदं प्रातु स्पष्टनिवेदम् सुमतिसुधादं विगतविषादं शमितविवादं सुनादं तत् जयतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org