________________
जयोदय- महाकाव्यम्
[ १३३-१३५
गणिकाऽऽपणिका किलैनसां मणिका चत्वरगेय सर्वसात् । कणिकाऽपि न शर्मणस्तनोर्झणिकाऽस्यां प्रणयो नयोज्झितः ।। १३३ ।।
११८
गणिति । गणिका वेश्या अखिलानामेनसां पापानामापणिका विक्रयस्थानम्, तथा चत्वरगा चत्वरे स्थिता मणिका जलपात्रमिव सर्वसात् सकलजनाधीना भवति । किञ्च शर्मणः कल्याणस्य कणिकाऽपि लेशमात्रमपि न । पुनस्तनोः झणिका शरीरस्य शोषिकाऽस्ति, अतोऽस्यां प्रणयो नयेन उज्झितो नीतिरहितोऽस्ति ॥ १३३ ॥
घ्नन्ति हन्त मृगयाप्रसङ्गिनः कौतुकात् किल निरागसोऽङ्गिनः । अन्तकान्तिकसमात्तशिक्षिणस्तान् धिगस्तु सुत विश्ववैरिणः ॥ १३४ ॥
घ्नन्तीति । हे सुत, मृगयाऽऽखेटस्तत्र प्रसङ्गो येषां ते व्याधकर्मकारिणो ये जनाः कौतुकाद् विनोदवशात् किल निरागसो निरपराधान् अङ्गिनो जीवान् घ्नन्ति विनाशयन्ति, तेऽन्तकस्य यमस्यान्तिके समात्ता शिक्षा यैस्ते वैवस्वतापितदण्डभाजो भवन्ति । हन्तेति खेदे । अतो विश्वस्य प्राणिवर्गस्य वैरिणः शत्रून् तान् धिक् ।। १३४ ॥ प्राणादपीष्टं जगतां तु वित्तं हर्तुर्व्यपायि स्वयमेव चित्तम् । स्वनिर्मितं गर्तमिवाशु मर्तु चौर्यं तदिच्छेत् किल कोऽत्र कर्तुम् ।। १३५ ।।
अर्थ : अधिक क्या कहें, गुप्तरूपसे विषयलोलुप और परायी स्त्रियोंको घूरनेवाला मनुष्य माता, बहन और पुत्रीतक भी गमन करता है ॥ १३२ ॥
अन्वय : गणिका अखिलैनसां आपणिका, चत्वरगा मणिका इव सर्वसात् । शर्मणः कणिका अपि न, ( किन्तु ) तनोः झणिका । अतः अस्यां प्रणयः नयोज्झितः ।
अर्थ : वेश्या मानो सम्पूर्ण पापोंका हाट है, चोराहेपर रखो जलकी मटकीके समान सभी के लिए भोग्या है । उसके उपभोग में कल्याणका लेशमात्र नहीं होता । किन्तु इसके विपरीत वह शरीरकी शोषक है, अनेक प्रकारके उपदंश आदि रोग होकर शरोरका नाश करती है । अतः उसके साथ प्रणय सर्वथा अनैतिक है ॥ १३३ ॥
अन्वय : हे सुत ! हन्त मृगयाप्रसङ्गिनः कौतुकात् किल निरागस : अङ्गिनः न्ति । (ते ) अन्तकान्तिकसमात्तशिक्षिणः । विश्ववैरिणः तान् धिग् अस्तु ।
अर्थ : हे वत्स ! खेदको बात है कि जो लोग शिकार खेलते हैं, वे विनोदवश निरपराध प्राणियों का संहार करते हैं । वे यमराजके निकट कठोर दण्डके भागी बनते हैं । प्राणिमात्रके शत्रु उन लोगोंको धिक्कार है ।। १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org