________________
जयोदय-महाकाव्यम्
[ १२९-:३० सानामिति । सानां चरजीवानां या तनुः कलेवरततिः, सा मांसनाम्ना प्रसिद्धाऽस्ति, तद्भक्षणं तु दूरमेवास्ताम्, तस्य मांसस्य उक्तिर्नामोच्चारणमपि विज्ञेषु जनेषु नित्यं निषिद्धा, यतोऽशनकाले तन्नाम श्रुत्वाऽपि अशनं त्यज्यते तैः । किन्तु सुशाकेषु वास्तुकादिषु सत्स्वपि तं जिघांसुः बुभुक्षुमनुष्यः स्यादित्यहो महदाश्चर्यम् । अत एनं परेषामसृजं रक्तं पिपासुं पातुमिच्छं पुरुषं धिक् ।। १२८ ॥
लोके घृणां समुपयन् मदकृद्धिरस्मिन् भङ्गा-तमाखु-सुलभादिभिरङ्ग वच्मि । धीभ्रंशनं परवशत्वमुपैति दैन्य
मम्मान्मदित्वमुपयाति न सोऽस्ति धन्यः ॥ १२९ ॥ लोक इति । अस्मिल्लोके अङ्ग हे भद्र, भङ्गातमाखुसुलभादिभिः मवकृद्धिमरुन्मत्तताकारिभिः वस्तुभिः मनुष्यो घृणां निर्लज्जतां समुपयन् स्वीकुर्वन् धियो बुद्धभ्रंशनं विनाशनं परवशत्वं दैन्यञ्च उपैति । अस्मात्कारणात् यो मदित्वमुपयाति स धन्यो नास्ति, अपि तु निन्द्योऽस्तोत्याशयः ।। १२९ ॥ माक्षिकं मक्षिकाबातघातोत्थितं तत्कुलक्लेदसम्भारधारान्वितम् । पीडयित्वाऽप्यकारुण्यमानीयते सांशिभिर्वशिभिः किन्न तत्पीयते॥१३०॥ ___अन्वय : त्रसानां तनः मांसनाम्ना प्रसिद्धा, च विज्ञेषु यदुक्तिः नित्यं निषिद्धा । अतः सुशाकेषु सत्सु अपि तं जिघांसुः अहो । परासपिपासुम् एनं मनुष्यं धिक् ।। ___ अर्थ : त्रसों, चर-जीवोंके शरीर 'मांस' नामसे प्रसिद्ध है, जिसका खाना तो दूर, नाम लेना भी विद्वानोंके बीच सर्वथा निषिद्ध माना गया है। इसलिए उत्तम शाक, फलादिके रहते हुए मनुष्य उस मांसको खाना चाहता है, यह बड़े आश्चर्यकी बात है। दूसरेके रक्तके प्यासे उस मनुष्यको धिक्कार है ॥ १२८ ॥
अन्वय : अङ्ग अस्मिन् लोके मदकृद्भिः भङ्गा-तमाखु-सुलभादिभिः घृणां समुपयन् ( नरः ) धीभ्रंशनं परवशत्वं दैन्यं च उपैति । अस्मात् यः मदित्वं उपयाति, सः धन्यः न अस्ति इति वच्मि ।
अर्थ : इस भूतलपर भाँग, तमाखू, सुलफा, गाँजा आदि वस्तुओंको निर्लज्ज हो स्वीकार करनेवाला मानव बुद्धि-विकार, परवशता और अत्यन्त दीनता प्राप्त करता है। इसीलिए जो इन मदकारी पदार्थोंसे मत्त हो जाता है, वह धन्य नहीं, अर्थात् निन्द्य है, ऐसा मैं कहता हूँ ।। १२९ ।।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International