________________
८९
६६-६८ ]
द्वितीयः सर्गः जातु नात्र हितकारि सन्मनो भ्रंशयेदपि तु तत्ववर्त्मनः। तत्कुशास्त्रमवमन्यतामिति कः श्रयेदवहितं महामतिः ॥ ६६ ।।
जात्विति । यत्किल परत्र अत्र च जातु कदाचित् हितकारि हितकारकं न भवति, किञ्च सतां मनः तत्त्वस्य वर्त्म तस्मात सन्मार्गाद् भ्रंशयेद् दूरीकुर्यात्, तत् कुशास्त्रं कथ्यते । अतस्तदवमन्यतां त्यज्यताम् । महामतिर्बुद्धिमान् सन् कोऽवहितं हितरहितं श्रयेत् आश्रयेत्, न कोऽपीत्यर्थः ॥ ६६ ॥ ना महत्सु नियमेन भक्तिमानस्तु कस्तु पुनरत्र पवित्रमा । चेद्भवेन्महदनुग्रहपृषद् यैर्मतो हि भुवि पूज्यते दृषद् ॥ ६७ ॥
नेति । ना मनुष्यो महत्सु महापुरुषेषु भक्तिमानस्तु । महत्सु भक्तितोऽन्यत्र पुनरत्र भूतले कः पवित्रमा भव्यभावः । चेद्यदि महतामनुग्रहस्य पृषवंशस्तवाऽस्त्येव पवित्रमा। यमहद्भिर्मतः सम्मतो दृषत् पाषाणखण्डोऽपि भुवि पूज्यते ॥ ६७ ।।
सन्निपातगुणतो निवर्तिनश्चापवर्गिकपथाग्रवर्तिनः । यस्य कामपरिवादसादुरो मङ्गलं श्रयतु दर्शनं गुरोः ॥ ६८ ॥ सन्निपातगुणत इति। संसारे पतनं सन्निपातस्तस्य गुणो विषयसेवनं सतो
अन्वय : ( यत् ) अत्र जातु हितकारि न, अपि तु सन्मनः तत्त्ववर्त्मनः भ्रंशयेत्, तत् कुशास्त्रम् इति अवमन्यताम् । कः महामतिः अवहितं श्रयेत् ।
अर्थ : जो शास्त्र यहाँ लौकिक कार्यों में हितकर न हो और सज्जनोंके मनको तत्त्वके मार्गसे भ्रष्ट करनेवाला हो, ( अतः परलोकके लिए भी अनुपयोगी हो, ) वह दोनों लोकोंको बिगाड़नेवाला शास्त्र कुशास्त्र है। उसे नहीं पढ़ना चाहिए। जिससे कोई लाभ नहीं, उसे कौन समझदार पुरुष स्वीकार करेगा ? ॥ ६६ ॥
अन्वय : ना महत्सु नियमेन भक्तिमान् अस्तु । महदनुग्रहपृषत् चेत् भवेत् अत्र तु पुनः कः पवित्रमा । हि यः मतः दृषत् भुवि पूज्यते । ___अर्थ : मनुष्य महापुरुषोंके प्रति नियमतः भक्तिमान् बने । महापुरुषोंके अनुग्रहका बिन्दु भी हो तो यहाँ उससे बढ़कर भव्यता क्या है ? कारण, इन महापुरुषों द्वारा आदृत पाषाण भी इस भूतल पर पूजा जाता है । ६७ ।।
अन्वय : सन्निपातगुणतः निवर्तिनः च आपवर्गिकपथाग्रवर्तिनः यस्य उरः कामपरिवादसात् ( तस्य ) गुरोः मङ्गलं दर्शनं श्रयतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org