________________
८६
जयोदय-महाकाव्यम्
[ ५९-६१ अर्थशास्त्रमवलोकयन्नृराट् कौशलं समनुभावयेत्तराम् । श्रीप्रजासु पदवीं व्रजेत्परां व्यर्थता हि मरणाद्भयङ्करा ॥ ५९॥ अर्थशास्त्रमिति । नृराट् सज्जनपुरुषोऽर्थशास्त्रमवलोकयेत् पठेवित्यर्थः । येन श्रीप्रजासु लोकेषु कौशलं चातुर्यमनुभावयेत्तराम् अतिशयेन चातुर्य प्रबोषयेत् । किञ्च परामुत्कृष्टां पदवीञ्च व्रजेत् । हि व्यर्थता दरिद्रता मरणावपि भयङ्करा भीतिकरी वर्तत इति शेषः ॥ ५९ ।।
यातु ताललयमूर्च्छनादिभिर्जेनकीर्तनकलाप्रसादिभिः । गीतिरीतिमपि तच्छ्र तात्पुनर्मजुवाक्त्वमिह विश्वमोहनम् ॥६०॥ यात्विति । पुनर्जेनकीर्तनस्य कला प्रसादयन्तीति तै: जैनकीर्तनकलाशोभाकरः ताललयमूर्छनाविभिः सङ्गीताङ्गस्तच्छुताद् गीतिशास्त्राद् गीतीनां रीतिः प्रकारस्तामपि यातु शिक्षताम् । यत इह मञ्जुवाक्त्वं मधुरवचनत्वं विश्वस्य संसारस्य मोहनं वशीकरणमस्तीति शेषः ॥ ६ ॥
कृच्छ्रसाध्यमिव सुष्टुकार्यकृन्मन्त्रतन्त्रमपि चेत्स्वतन्त्रहृत् । तन्निवेदिपुरतः परिश्रमात् साधयेदघविराधये पुमान् ॥ ६१ ॥ कृच्छ्रसाध्यमिति । यद्यपि मन्त्रतन्त्रं मन्त्रशास्त्रं कृच्छ्रण साध्यं कष्टसाधनोय.
अन्वय : नृराट् अर्थशास्त्रम् अवलोकयेत् येन श्रीप्रजासु कौशलं समनुभावयेत्तराम्, च परां पदवीं व्रजेत् । हि व्यर्थता मरणात् भयङ्करा भवति ।
अर्थ : सज्जन पुरुषको चाहिए कि अर्थशास्त्रका भी अध्ययन करे, जिससे आम लोगोंमें रहते हुए कुशलतापूर्वक जीवनयापन कर सके और प्रतिष्ठा पा सके। अन्यथा धनहीनता मरणसे भी बढ़कर भयंकर दुःखदायिनी होती है ।। ५९ ॥
अन्वय : पुनः जैनकीर्तनकलाप्रसादिभिः ताललयमूर्च्छनादिभिः तच्छ्र तात् गीतिरीतिम् अपि यातु । इह मञ्जुवाक्त्वं विश्वमोहनं ( भवति )।
अर्थ : इसके बाद जिन भगवान्की कीर्तन-कलाके लिए शोभाप्रद ताल, लय, मूर्च्छना आदि संगीतके अंगोंके साथ गीतिके प्रकार भी संगीतशास्त्रसे सीख लें। क्योंकि मधुरवाक्यता विश्वको वश करनेवाली होती है ।। ६०॥
अन्वय : मन्त्रतन्त्रं कृच्छ साध्यम् इव, (तथापि ) सुष्ठुकार्यकृत् । अतः पुमान् स्वतन्त्रहृत् ( चेत् ) अघविराधये परिश्रमात् तन्निवेदिपुरतः तदपि साधयेत् ।।
अर्थ : यद्यपि मंत्रशास्त्र कष्टसाध्य प्रतीत होता है, फिर भी है वह उतना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org