________________
जयोदय-महाकाव्यम्
[५४-५६ यातु वृद्धसमयात्किलोपमाऽपद्भुतिप्रभृतिकं च बुद्धिमान् । भूरिशो ह्यभिनयानुरोधिनी वागलङ्करणतोऽभिबोधिनी ॥ ५४ ॥
यात्विति । यतः किल वाग् वाणी भूरिशः प्रायस्तावद अभिनयानुरोधिनी प्रसङ्गानुसारिणी भवति । अतोऽलङ्कारत एव स्वाभिप्रायस्य अभिबोधिनी यथोचितबोध. पदा भवति । ततो वृद्धसमयात् काव्यशास्त्राद् उपमाऽपह्न त्याद्यलङ्कारश्च यातु प्राप्नोतु बुद्धिमान मनुष्य इति ॥ ५४ ॥ व्याकृति शुचिमलङ्कृति पुनश्छन्दसांततिमिति त्रयं जनः । साभिधेयमभिधानमन्वयप्रायमाश्रयतु तद्धि वाङमयम् ॥ ५५ ॥
व्याकृतिमिति । शुचि निर्दोषां व्याकृति व्याकरणमलङ्कृतिमलङ्कारशास्त्रं छन्दसा वृत्तानां तति पङ्क्तिञ्च एतत्त्रयम् अभिधेयो वाच्यार्थस्तेन सहितं साभिधेयम् अभिधानबाचकशब्दस्तयोरन्वयः सम्बन्धस्तद्रूपं वाङ्मयमसौ जन आश्रयतु सेवताम् ॥ ५५ ॥
तानवं श्रुतमुपैतु मानवः स्यान्न वर्मनि मुदोऽघसम्भवः । प्रीतमस्तु च सहायिनां मन आद्यमङ्गमिह सौख्यसाधनम् ॥ ५६ ॥
तानवमिति । मानवस्तन्वा इदं तानवं शरीरसम्बन्धि शास्त्रमायुर्वेदशास्त्रमपि उपतु प्राप्नोतु, पठस्वित्यर्थः । यतः किल मुवो वर्मनि स्वास्थ्येऽघसम्भवो रोगाद्युत्पत्तिन
अन्वय : च बुद्धिमान् किल वृद्धसमयात् उपमापह्न तिप्रभृतिकं यातु । हि वाक् भूरिशः अभिनयानुरोधिनी, अलङ्करणतः च अभिबोधिनी भवति ।
अर्थ : इसी प्रकार बुद्धिमान्को चाहिए कि काव्यशास्त्रका अध्ययन करके उपमा, अपह्नति, रूपक आदि अलंकारोंका भी ज्ञान प्राप्त करे। चूँकि वाणी प्रायः प्रसंगानुसारिणी होती है, अतः अलंकारोंद्वारा ही वह अपने अभिप्रायका यथोचित बोध करा पाती है ।। ५४ ॥
अन्वय : जनः शुचिं व्याकृतिम् अलङ्कृति पुनः छन्दसां ततिम् इति त्रयम् अन्धयप्रायं साभिधेयम् अभिधानम् आश्रयतु । हि तत् वाङ्मयम् । __अर्थ : गृहस्थको चाहिए कि उत्तम व्याकरण शास्त्र, अलंकार शास्त्र और छन्दःशास्त्र, जो कि परस्पर वाच्य-वाचकके समन्वयको लिये हुए होते हैं और जो वाङ्मय के नामसे कहे जाते हैं, उनका अच्छी तरहसे अध्ययन करे ॥ ५५ ॥
अन्वय : मानवः तानवं श्रुतम् उपैतु, यतः मुदः वर्मनि अघसम्भवः न स्यात् । च सहायिनां मनः प्रीतम् अस्तु । इह हि अङ्गम् आद्यं सौख्यसाधनम् ( अस्ति )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org